Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 170
________________ ७०७०७७०७०७ ७७७०७०७ तदन्यजलग्रहणकारणन्तु तदानीं उत्कालिकत्रयवज्जलस्य गच्छोचितपरिमाणतया दुर्लभत्वात् । ततश्च गच्छावश्यकतापूरणार्थं निर्दोषाणामचितानामन्येषामपि जलानां ग्रहणमासीत् । अन्यानि च जलानि धान्यकचवरादियुक्तान्यपि भवन्तीति न तानि सर्वथा शुद्धानि, किन्तु किञ्चिन्मलिनानि, न च तादृशानि तानि आचार्याय दीयन्ते, अभक्तिप्रसङ्गात् । न च अभावितशैक्षेभ्यो दीयन्ते, संयमोद्वेगप्रसङ्गात् । न च तैः पादधावनमधिष्ठानप्रक्षालनं च क्रियते अनुचितत्वात् प्रत्युत पादाधिष्ठानयोर्मा - लिन्यापादनात् । न च तानि अतिरिक्तानि सुखेन विविच्यन्ते ससिक्थत्वादिना जीवविराधनासम्भवात् । न च तैः सागारिकस्याग्रतः आचमनं क्रियते, शासनहीलनाप्रसङ्गात् । तस्मात् एतादृशकार्यार्थं शुद्धजलमावश्यकं, तदर्थं च तद्गलनमावश्यकमिति । କଣ କଣ କଣ କଣ ଜାନ କରିବେ ରିମ୍ୟୟ କର ରସ କରଣ କରିବାକୁ କରିବାକୁ ଏକ (१३३ ) एवं तावत्पात्रकर्णेनापि उदकमपवृत्य पानकगलनं क्रियते । अथ पुनस्तत्र कीटिकामर्कोटिकादयः प्लवमाना दृश्यन्ते, ततस्तत्र गलिते को विधिरित्यत आह मुइंगा-कीटिका मर्कोटकाश्च तैः संसक्तं ज्ञात्वा गालयेत् वंशपिटकेन शकुनिगृहकेन वा गालयेत् तद् द्रवम् । (ओ.नि. ५५८-५५९ ) " body bodoos Dodbye bye bye podcodeodoogpopoppo Pooooooo चन्द्र. नन्वधुना यथा शुद्धवस्त्रेण पानकगालनं क्रियते, तथाऽत्र किमिति न प्रतिपादितम् । किमिति वस्त्रापेक्षया - दुर्लभेन वंशपिटकेन शकुनिगृहकेन वा गालनं प्रतिपादितं इति चेत् अत्रायमस्माकं मनीषोन्मेषः । उत्सर्गतस्तावत् पात्रकर्णेनोदकमपवृत्य पानकगलनं करणीयं, न वस्त्रेण वंशपिटकादिना वा । यतो हि यदि वस्त्रेण पानकं गाल्यते, तर्हि पानकगलनार्थं अधिकं वस्त्रं परिग्राह्यं स्यादिति परिग्रहदोषः । तथा पानकगलनानन्तरं . आर्द्रीभूतं तद् वस्त्रं शोषणाय आतपादिषु स्थापनीयम्, तत्र च वायुकायविराधना, तथा यावत्तन्न शुष्येत, तावत्तत्परिपालनायां पलिमन्थदोषश्च स्यात् । तथा वस्त्रेण पानकगालनाय वस्त्रं पात्रके गर्तारूपं किञ्चिदुण्डं कर्त्तव्यम्, तदर्थं हस्तस्तत्र प्रक्षेपणीयः २०७०७०७०७०७०५ २०७०७०७०७७७७७०७२७०७ सिद्धान्त रहस्य बिन्दुः १६७

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206