Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 23
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ___ एतद्विपरीतं भावमङ्गले बोध्यम् । तथाहि अर्हदादिनमस्कारः सर्वान्प्रत्यविशेषेण मङ्गलं । न तु कस्यचिन्मङ्गलं कस्यचिच्चामङ्गलमित्येवमनैकान्तिकः । तथा स नमस्कारः न अमङ्गलेनोपहन्यत इति युक्तं भावमङ्गलस्यैकान्तिकत्वमात्यन्तिकत्वञ्चेति । शङ्कते → विहारकरणे तावदयं विधिः प्रतिपादितः सामाचारीप्रकरणादौ यदुत उपाश्रयाबहिनिर्गमनानन्तरं यदि मार्गे किञ्चिदपशकुनं भवेत्, तर्हि प्रत्यावृत्य एकं पञ्चमङ्गलमहाश्रुतस्कन्धं गुणयित्वा पुनः निर्गन्तव्यम् । तथाऽपि अपशकुने सति पुनः प्रत्यावृत्य द्वौ नवकारौ गुणयित्वा पुनः निर्गन्तव्यम् । तथाऽपि अपशकुने सति पुनः प्रत्यावृत्य लघुपर्यायस्य साधोः पुरस्करणं कृत्वा पुनः निर्गन्तव्यम् । तथाऽप्यपशकुने सति तु प्रत्यावृत्य गुरोः सर्वं निवेदयितव्यम्। पश्चाद् यद् गुरवो वदन्ति, तदेव प्रमाणमित्यादि । अत्र हि अपशकुनममङ्गलमेव, तेन च अर्हदादिनमस्काररुपं भावमङ्गलमुपहन्यत एव, अत एव च प्रत्यावर्तनं क्रियते, भावमङ्गलोपहननाभावे तु अपशकुने सत्यपि निर्गमनमेव कार्यं स्यात् न तु प्रत्यावर्तनादि, ततश्चैतत्कथं श्रद्धेयं ? यदुत भावमङ्गलं अमङ्गलेन नोपहन्यत – इत्यादि । ___ अत्र समाधानन्त्विदं → भावमङ्गलं द्रव्यामङ्गलेन नोपहन्यते, प्रबलेन भावामङ्गलेन तूपहन्यत एवेति न कश्चिद् दोष इति । ननु अपशकुनं द्रव्यामङ्गलमेव, न तु भावामङ्गलं, तेनैव च भावमङ्गलमत्रोपहन्यते, तत्कथमेतत् ? इति चेत् न, प्रकृतमपशकुनं न द्रव्यामङ्गलमपि तु मङ्गलमेवेति । ननु किमिदमश्रुतपूर्वं भवता श्राव्यते ? 'अपशकुनं मङ्गलं' इति तु मूर्योऽपि न श्रद्दधाति, भवास्तु मतिमानपि किमिदमसञ्जसं प्रलपसीति चेत् मुग्धोऽसि, न जानासि शास्त्ररहस्यम् । सकर्णो भूत्वा श्रुणु तावत्कर्णामृतायमानं शास्त्ररहस्यम् ।। __राजा राजभवनरक्षणाय सैनिकान्स्थापयति, ते च सैनिकाः राजभवने चौराद्यागमनं राजानं निवेदयन्ति, किं राजा तान् सैनिकान् अशोभनान् मन्यते ? यदुत "रात्रौ युष्माभिः चौराद्यागमननिवेदनाय मन्निद्राविघ्नं कृतं, अशोभना यूयमिति । किं वा तान् शोभनान् मन्यते ? यदुत "मन्निवेदनेन राजभवनं संरक्षितं भवद्भिः, धन्यवादोऽस्तु भवतामिति । सैनिका हि न चौरादीनि विघ्नानि उत्पादयन्ति, परन्तु उत्पद्यमानानि विघ्नानि ज्ञापयन्ति । अत एव ते शोभना एव । एवं अपशकुनं उदयमागच्छद् पापकर्मात्मकं विघ्नं ज्ञापयति, न तु स्वयं तदुत्पादयतीति अपशकुनं सैनिकवन्मङ्गलमेवेति स्पष्टमेवेति । यथा हि चौरादिविघ्नाभावे सैनिका न राजानं किमपि निवेदयन्ति, एवमेव லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः २०

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206