Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
வலலலலலலலலலலலலலலலலலலலலலலலலலலல
इदन्तु बोध्यम् । विशिष्टलाभं समुत्प्रेक्ष्य क्वचित्कारणविशेषे गीतार्थानामन्यथाऽऽचारोऽनुबन्धतो हिताबाधकतया न विरुद्धः । तस्मादत्रापि नैकान्तेन कुत्रापि लगितव्यम् । न केवलमत्र, किन्तु सर्वेष्वपि आचारेषु एष एव गमः सूक्ष्मधिया निभालनीयः यावन्त उत्सर्गाः तावन्तोऽपवादाः, ये आश्रवाः ते परिश्रवाः इत्यादिवचनानां सर्वाचारेषु अप्रतिहतत्वात् ।
ജിച്ചിട്ടുള്ള ടൂറിളക്ടർക്കുള്ളിക്കൂട്ടുകളുച്ഛിളിച്ചുപറിയ്ക്കുമെതികൂട്ടുകെട്ടുക്കൂട്ടുകളുണ്ട്. (४७) 'उभएगयरे य ओयविए' उभयं श्रावकः श्राविका च ओयविअं खेदज्ञं उभयं यदि भवति, एगतरं च ओयविअं अल्पसागारिक:-श्रावकः, श्राविका
वा ओयविआ अल्पसागारिकेत्यर्थः, ततो भुक्ते । (ओ.नि. भा. ५४) Colodity ideo itorior dodkosidos dosto itorido dlysityskiyodos donsidoskoolivo dikodiyos
चन्द्र. अत्र 'ओयविअं' इति पदस्य द्वौ अर्थौ वत्तिकता निगदितौ ज्ञायेते. खेदज्ञत्वमल्पसागारिकत्वं च । तत्र खेदज्ञपदं यदि 'परिवाराभावेऽपि सर्वकार्यक्षमत्वं' इत्यर्थस्य वाचकं गृह्यते, तदा परमार्थत तत्पदं अल्पसागारिकत्वार्थस्यैव वाचकमिति एक एवार्थः, केवलं शब्दभेदः खेदज्ञः अल्पसागारिकश्चेति । एवं चायमर्थो भवति 'यदि श्रावक: श्राविका चोभयं खेदज्ञं अल्पसागारिकं परिवाररहितमिति यावत् । यदि वा श्रावक एकोऽल्पसागारिकः श्राविकादिपरिवार-विरहितः इति यावत्, यदि वा श्राविका एकाऽल्पसागारिका श्रावकादिपरिवाररहितेति यावत् । तर्हि एतदन्यतरे विकल्पे सति साधुस्तत्रैव भुङ्क्ते । यतस्तत्र द्वौ एक एव वा जन इति एकान्तस्य सुलभत्वात् भुक्तिः सुकरा प्रभूतजने तु एकान्तस्य दौर्लभ्यात् भुक्तिर्दुष्करा, श्रावकश्राविकयोश्च परिणतत्वात् इतरदोषाणामप्यसम्भव इति । ___ यदि च खेदज्ञपदं परिणतत्वस्य (साधुसामाचारीसंज्ञानवत्त्वस्येति यावत्) वाचकं, तर्हि अयमर्थो भवेत् “यदि तत्र उभयं परिणतं, तर्हि तत्र भुङ्क्ते, यदि च श्रावक एक एव यदि वा श्राविका एका एव, तदाऽपि तत्र भुङ्क्ते" इति । अत्रापि एकस्यैव श्रावकस्य एकस्या वा श्राविकायाः परिणतत्वं तु ग्राह्यमेव । नहि 'उभयस्य परिणतत्वं एकस्य एकस्या वा अपरिणतत्वं अनुमतं' इति अत्र काचिद् युक्तिर्विद्यते ।।
லலலலலலலலலலலலலலலலலலலலலலலலலல ७४
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206