Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலல तत्कोत्थलकारिगृहकं न सचेतनया मृत्तिकया कृतम्, किन्तु पुराणमृत्तिकया, ततस्तां पुराणां मृत्तिका तस्मिन्नेव प्रतिलेखनाकालेऽपनयति यदि
___ तत्र कृमिकास्तया न प्रवेशिता इति । (ओ.नि. २९४) disease అంత తక తరంగ త త త ం అ vadi di di di di di di di తం ద ంట్!
चन्द्र. पात्रकप्रत्युपेक्षणाकाले यदि पात्रकं मूषकोत्कीर्णसचित्तरजसाऽवगुण्डितं भवेत्, यदि वा सार्द्रभूमेरुन्मज्ज्य सलिलबिन्दवः पात्रकेऽधस्ताद् लग्ना भवेयुः, यदिवा तत्र कोलिकतन्तवो लग्ना भवेयुः, यदि वा भ्रमरेण तत्र मृदमानीय मृन्मयं गृहं कृतं भवेदित्येवमत्र अवस्थाचतुष्के कया यतनया प्रतिलेखनीयं पात्रमित्येतदत्र निगदितम् ।
तत्र मूषकोत्कीर्णसचित्तरजः पात्रकलग्नं प्रमृज्य शनैः शनैः मूषकोत्केरमध्ये एव स्थापनीयः, उदकबिन्दवस्तु यावत्स्वयमेव शोषमुपगच्छन्ति, तावत्प्रतीक्षणं कर्त्तव्यम्, शोषमुपगतेषु तेषु प्रतिलेखनीयं पात्रम् । कोलिकसन्ताने भ्रमरगृहे च प्रहरत्रयं यावत्प्रतीक्षणं कार्यम्, यदि तावता कालेन ते स्वयमेव निर्गच्छतः, तहि शोभनमेव, तदसम्भवे पात्रकस्थापनादीनां कोलिकसन्तानादिव्याप्तं तावन्तं भागं अपनीयऽवशिष्टस्य प्रतिलेखनं करणीयमिति तावत् प्रकृतपाठसमुदायार्थः ।
अधुना चालना -
ननु यथा भ्रमरगृहे सति प्रहरत्रयं यावत्प्रतीक्षणं क्रियते, तथैव मूषकोत्कीर्णरजसि सति प्रहरत्रयं प्रतीक्षणं किमर्थं न क्रियते ? उभयत्र सचित्तपृथ्व्या एव यतनायाः करणीयत्वात् इति प्रथम प्रश्नः, यदि च मूषकोत्कीर्णरजः प्रमृज्यापनीयते, तर्हि उदकबिन्दवो भ्रमरगृहं च कथं प्रमृज्य नापनीयन्ते ? स्थावरकायत्वेन समानानां तेषां यतनाया अपि साम्यस्यैव युक्तत्वादिति द्वितीयः प्रश्नः ।
अधुना प्रत्यवस्थानं
यद्यपि भ्रमरगृहं मूषकोत्कीर्णरजश्चोभे अपि सचित्ते पृथ्वीकायरुपे स्तः. तथाऽपि स्थावरकायानामेष स्वभावः यदुत ते स्वोत्पत्तिस्थाने स्वकायं संलग्नाश्चिरं जीवन्ति, स्वकायात्पृथग्भूतास्तु प्रायो न चिरं जीवन्ति, ततश्च मूषकोत्कीर्णरजः यदि पात्रके प्रहरत्रयं यावत्प्रतिपाल्येत, तहि तत् स्वकायभ्रष्टं सत् शीघ्रमेव विराध्येत । शनैः शनैः प्रमृज्य मूषकोत्केरमध्ये तत्स्थापने तु यद्यपि सङ्घट्टनदोषो भवति, तथाऽपि तत् स्वकाये स्थापितं सत् चिरं जीवति, न विराध्येतेति आयव्ययौ पर्यालोच्य तस्य तत्र स्थापनं युक्तमेव ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १३६
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206