SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ வலலலலலலலலலலலலலலலலலலலலலலலலலலல इदन्तु बोध्यम् । विशिष्टलाभं समुत्प्रेक्ष्य क्वचित्कारणविशेषे गीतार्थानामन्यथाऽऽचारोऽनुबन्धतो हिताबाधकतया न विरुद्धः । तस्मादत्रापि नैकान्तेन कुत्रापि लगितव्यम् । न केवलमत्र, किन्तु सर्वेष्वपि आचारेषु एष एव गमः सूक्ष्मधिया निभालनीयः यावन्त उत्सर्गाः तावन्तोऽपवादाः, ये आश्रवाः ते परिश्रवाः इत्यादिवचनानां सर्वाचारेषु अप्रतिहतत्वात् । ജിച്ചിട്ടുള്ള ടൂറിളക്ടർക്കുള്ളിക്കൂട്ടുകളുച്ഛിളിച്ചുപറിയ്ക്കുമെതികൂട്ടുകെട്ടുക്കൂട്ടുകളുണ്ട്. (४७) 'उभएगयरे य ओयविए' उभयं श्रावकः श्राविका च ओयविअं खेदज्ञं उभयं यदि भवति, एगतरं च ओयविअं अल्पसागारिक:-श्रावकः, श्राविका वा ओयविआ अल्पसागारिकेत्यर्थः, ततो भुक्ते । (ओ.नि. भा. ५४) Colodity ideo itorior dodkosidos dosto itorido dlysityskiyodos donsidoskoolivo dikodiyos चन्द्र. अत्र 'ओयविअं' इति पदस्य द्वौ अर्थौ वत्तिकता निगदितौ ज्ञायेते. खेदज्ञत्वमल्पसागारिकत्वं च । तत्र खेदज्ञपदं यदि 'परिवाराभावेऽपि सर्वकार्यक्षमत्वं' इत्यर्थस्य वाचकं गृह्यते, तदा परमार्थत तत्पदं अल्पसागारिकत्वार्थस्यैव वाचकमिति एक एवार्थः, केवलं शब्दभेदः खेदज्ञः अल्पसागारिकश्चेति । एवं चायमर्थो भवति 'यदि श्रावक: श्राविका चोभयं खेदज्ञं अल्पसागारिकं परिवाररहितमिति यावत् । यदि वा श्रावक एकोऽल्पसागारिकः श्राविकादिपरिवार-विरहितः इति यावत्, यदि वा श्राविका एकाऽल्पसागारिका श्रावकादिपरिवाररहितेति यावत् । तर्हि एतदन्यतरे विकल्पे सति साधुस्तत्रैव भुङ्क्ते । यतस्तत्र द्वौ एक एव वा जन इति एकान्तस्य सुलभत्वात् भुक्तिः सुकरा प्रभूतजने तु एकान्तस्य दौर्लभ्यात् भुक्तिर्दुष्करा, श्रावकश्राविकयोश्च परिणतत्वात् इतरदोषाणामप्यसम्भव इति । ___ यदि च खेदज्ञपदं परिणतत्वस्य (साधुसामाचारीसंज्ञानवत्त्वस्येति यावत्) वाचकं, तर्हि अयमर्थो भवेत् “यदि तत्र उभयं परिणतं, तर्हि तत्र भुङ्क्ते, यदि च श्रावक एक एव यदि वा श्राविका एका एव, तदाऽपि तत्र भुङ्क्ते" इति । अत्रापि एकस्यैव श्रावकस्य एकस्या वा श्राविकायाः परिणतत्वं तु ग्राह्यमेव । नहि 'उभयस्य परिणतत्वं एकस्य एकस्या वा अपरिणतत्वं अनुमतं' इति अत्र काचिद् युक्तिर्विद्यते ।। லலலலலலலலலலலலலலலலலலலலலலலலலல ७४ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy