________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல तीर्थंकरसदृशत्वं तदाज्ञायाश्चानतिक्रमणीयत्वं निगदितम् ।
यत्र च दूरवर्तित्वादिकारणवशतो भावाचार्यैः वर्तमानद्रव्यक्षेत्रकालभावाः न सम्यक् परिज्ञाताः, तत्र गीतार्थसाधुः कदाचिद् गुरोः पूर्वाज्ञामेवानुसरेत्, कदाचिच्च वर्तमानद्रव्यादिवशतः दोषदर्शने सति तामतिक्रम्य शास्त्रवचनं स्वगीतार्थतां च पुरस्कृत्य प्रवर्तते । तत्र च तदेव प्रमाणम्, न तु गुरोः पूर्वाज्ञा । यदि च भावाचार्याः वर्तमानद्रव्यादीन् जानीयुः, तदा तेऽपि पूर्वाज्ञां निषिध्य नूतनाज्ञां कुर्युरिति नूतना जिनाज्ञाऽपि भावाचार्याज्ञाऽभिन्नैवेति परमार्थतः तत्र गुर्वाज्ञाऽनुल्लङ्घनमेवेति सूक्ष्ममीक्षणीयमिति !
तदयमत्र निष्कर्षः, जिनाज्ञा भावाचार्याज्ञा च परमार्थतः एकैव भवति, यत्रानुबन्धतो लाभः, तत्र उभयोराज्ञाऽस्त्येव, अनुबन्धतो लाभश्च द्रव्यक्षेत्रकालभावाद्यनुसारीति ।
സർമുല്ലപ്പള്ളിയിലും പാറിപ്പറക്കുന്നതും (४६) ततश्च आरम्भं दृष्ट्वा एतच्च ब्रवीति - नास्मदर्थे कश्चित्कर्तव्य
आहारविधिः । किन्त्वस्माकं विधिदानं क्रियते । (ओ.नि. भा. ५३) தரும் மேல் பேரம் பேரம் போல் மேல் மேல் கால் மேல் இருப்போம் தரும் மேல் கால் மேல் கால் இரும் eye eps eps eps eps eps
चन्द्र. साध्वर्थमारम्भं कुर्वाणं श्रावकं दृष्ट्वा साधुनिषेधयति “अस्मदर्थे कोऽपि पाकाद्यारम्भो न कर्त्तव्यः, निर्दोष एव आहारोऽस्माकं दातव्य" इति ।
ननु मुग्धश्रावकाणां सुसाधवेऽशुद्धदानं बहुतरनिर्जराऽल्पबन्धकारि निगदितमस्ति । ततश्च अशुद्धदानमपि तेषां हितकरमेवेति अयं निषेधः कथं युक्त इति चेत्
न, मुग्धतापरिहारेण शुद्धदानद्वाराऽधिकनिर्जरादिलाभसम्पादनार्थं प्रकृतोपदेशो युक्त एव । मुग्धानां अशुद्धदानजन्यनिर्जरापेक्षया परिणतानां शुद्धदानजन्यनिर्जराया अनन्तगुणत्वमिति तु सुप्रसिद्धमेव ।
किञ्च स्वशुभपरिणामबाधेन परोपकारकरणं न कथंञ्चिदपि जाघटीति, अत एवावश्यकक्रियाबाधेन धर्मोपदेशमपि कुर्वाणस्य काथिकत्वमवन्दनीयत्वं च निगदितं यतिजीतकल्पादौ । यद्यपि अत्र स्वरुपतः परोपकारकरणशुभपरिणामो दृश्यते, तथाऽपि अनुबन्धतः सदोषाहारग्रहणादिविषयकप्रमादलौल्यादयो बहवो दोषाः सम्भवदुत्पत्तिका इति अनुबन्धतोऽत्र शुभपरिणामबाधः, तस्मात् अत्र सदोषाहारनिषेधो युक्त एवेति ।। வலைவஷைஷஷஷஷஷவடிவஷைலஜஷைஷ सिद्धान्त रहस्य बिन्दुः
७३