SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ിപ്പിക്കുന്നതിനു പിന്തിരിപ്പിക്കുകയായിരു (४५) तीर्थकरसम्बन्धिवचनकरणे = वचनानुष्ठाने आचार्याणां ___प्रागेव पूर्वमेव कृतं भवति । (ओ.नि. भा. ४७) aodkoshdodkevideosdhos kodkyi kysi doiidos komideodidodkosikod ko koi doskooliyo keosikers चन्द्र. 'जो गिलाणं पडिसेवइ सो मां पडिसेवइ । जो मां पडिसेवइ सो गिलाणं पडिसेवई' इति तीर्थंकरवचनम् । आचार्येण चामुककार्याय साधुः प्रेषितः । तेन चापान्तराले ग्लानं श्रुत्वा दृष्ट्वा च तत्प्रतिचरणं कृतम् । ततश्च गुरुकार्यं विलम्बितं जातम् । तत्र किं स साधुः दोषभाग्भवति न वा ? इति प्रश्नः । तत्समाधानायेदं वचनं यदुत तीर्थंकरवचनं पालयताऽऽचार्यवचनं पालितमेवेति न स मनागपि दोषभागिति । यदि हि स आचार्यकार्यार्थं तीर्थंकरवचनमुपेक्षेत, तर्हि स अवश्यं दोषभाग्भवेत् । इत्थं च जिनाज्ञा गुर्वाज्ञायाः सकाशाद्गरीयसीति अनेन ज्ञायते । ___ कश्चिद् अत्राह - ननु यदि जिनाज्ञा गुर्वाज्ञायाः सकाशात् गरीयसी, तर्हि भाद्रपदशुक्लपञ्चम्यामेव सांवत्सरिकप्रतिक्रमणं कार्य, तस्यैव जिनाज्ञात्वात्, न तु चतुर्थ्यां, तस्या गुरुपरम्परासमागतत्वेन गुर्वाज्ञात्वात् । न केवलमेतावदेवापितु यः कोऽपि आज्ञाविरुद्धः जीतव्यवहारः, स सर्वोऽपि, जिनागमेषु वाक्यार्थरुपेण अदृश्यमानत्वात् गुरुपरम्परासमागतत्वेन गुर्वाज्ञारुपत्वादुपेक्षणीय एव स्यात् । न चैतद् भवतामपीष्टमिति । किञ्च श्रीमहानिशीथसूत्रे → से भयवं ! किं तित्थयरसंतियं आणं नाइक्कमिज्जा, उयाहु आयरियसंतियं । गोयमा ! चउव्विहा आयरिया पन्नत्ता, तंजहा-नामायरिया, ठवणायरिया, दव्वायरिया, भावायरिया य । तत्थ णं जे ते भावायरिया, ते तित्थयरसमा चेव दट्ठव्वा, तेसिं संतियं आणं नाइक्कमिज्जा - इति । अत्र हि "आचार्याज्ञा उपेक्षणीया, तीर्थकराज्ञा पालनीया" इति नोक्तम् । किन्तु भावाचार्याणां तीर्थंकरसादृश्यं निगद्य तदाज्ञापालनमेवाभिहितम् । ततश्चात्र गुर्वाज्ञाया एव गरीयस्त्वमिष्यते, प्रकृते च तीर्थंकराज्ञाया इति कथं न परस्परं विरोध इति चेत् । न, यत्र वर्तमानद्रव्यक्षेत्रकालभावाः भावाचार्यैः सम्यक् परिज्ञाताः, तत्र भावाचार्या व प्रधाना। यतः ते गौरवं लाघवं च पर्यालोच्य कदाचित् शास्त्रवचनानुसारेण निर्णयं कुर्वन्ति, कदाचिच्च शास्त्रवचनस्य साक्षादनुसरणं मुक्त्वाऽन्यथा निर्णयं कुर्वन्ति, परमार्थतस्तु सोऽपि निर्णयः जिनानुमतत्वात् जिनाजैव । एतद्ज्ञापनार्थमेव महानिशीथे भावाचार्याणां லலலலலலலலலலலலலலலலலலலலலலலலலலலல ७२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy