________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ഹംംംംംംംംംംം (४४) एस गमो पंचण्ह वि णितिआदीणं गिलाणपडियरणे... । ग्लानप्रतिचरणे एष विधिः यदुत प्रासुकेन भक्तादिना प्रतिचरणं कार्यम्, निकाचनं करोति यदुत दृढीभूतेन त्वया यदहं ब्रवीमि, तत्कर्त्तव्यम् ।
(ओ.नि. भा. ३९) Boskoolidoe do it does days agof todayideoskosiko sidolity ideoseys ky satoldeos dysivos ky skosh
चन्द्र. संविग्नग्लानस्य प्रासु के नाप्रासुके न वा प्रतिचरणं कार्यम्, पार्श्वस्थावसन्नकुशीलसंसक्तनित्यवासिनां प्रासुकेन प्रतिचरणं कार्यम् इत्यत्र भेदः, तथा नित्यवासिप्रभृतीनां निकाचनं करोति इत्यपि विशेषः ।
अत्र भवेदियं जिज्ञासा 'किमर्थं पार्श्वस्थादीनां प्रतिचरणं प्रासुकेनैव, नाप्रसुकेन' इति । __ अत्र समाधीयते, पार्श्वस्थादयो हि स्वयमेव शिथिलाचाराः, ततश्च यदि तेषामप्रासुकेन प्रतिजागरणं क्रियेत, तर्हि ते चिन्तयेयुः “यदि संविग्ना अपि एते अप्रासुकेन प्रतिचरणं कुर्वन्ति, तर्हि निश्चितमप्रासुके न दोषः, ततश्चाद्य यावदस्माभिर्यदाचरितं, तत्सर्वं निर्दोषं" इति । इत्थं च तेऽसंयमे दृढा कृताः स्युः मिथ्यात्वं च प्रापिताः स्युः, तस्मात्तेषामप्रासुकेन प्रतिचरणं न कार्यम् ।
निकाचनं किमर्थमिति चेत् पार्श्वस्थादयो हि यदि संविग्नबहुमानिनः तर्हि संविग्नपाक्षिकाः, अन्यथा तु संविग्नपाक्षिकादपि हीनतराः । ततश्च यदि संविग्नपाक्षिकस्यापि श्रावकाद् हीनत्वं, तर्हि पार्श्वस्थादीनां तु सुतरां तथात्वम् । इत्थं च यदि श्रावकवैयावृत्यमपि साधूनामकरणीयम्, तर्हि तदधस्तनस्थानवर्तिनां पार्श्वस्थादीनां तु सुतरामकरणीयं तत्, तथाऽपि यदि वैयावृत्त्यवशीभूतास्ते पुनः संविग्नताप्रतिपत्तौ समुत्साहा भवेयुः तर्हि अपवादतो वैयावृत्त्यं युक्तं भवेत् । तस्मादत्र निकाचनं क्रियते । यदि च ते नैवं निकाचनं स्वीकुर्वन्ति, तदा श्रावकादिवत्तेषां वैयावृत्त्यमपि अकरणीयमेवेति ।
किं बहुना ? साक्षात्परम्परया वा मोक्षानुकूलतां सम्पादयदेव किमपि कृत्यं अनुमतम्, तदसम्पादयत्पुनः निरर्थकत्वान्निराकृतमिति ।
ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலை सिद्धान्त रहस्य बिन्दुः