SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ननु सचित्तमचित्तं कारयित्वा ग्लानदानात्सकाशात्साक्षात् सचित्तस्यैव दानमल्पदोषम् । तथाहि साक्षात्सचित्तभक्षणे केवलं सचित्तस्यैकस्यैव विराधना, तदचित्तताकरणे तु तेजस्कायवायुकायादिविराधनाऽतिप्रभूता भवेत्, सचित्तविराधना तु तत्राऽप्यस्त्येवेति कोऽयं न्यायः यदुत सचित्तमचित्तं कारयित्वा ग्लानस्य दातव्यमिति चेत् सत्यम्, यद्यपि बाह्यविराधना सचित्ताचित्तताकरणेऽभ्यधिका, साक्षात्सचित्तभक्षणे त्वल्पा, तथाऽपि साक्षात्सचित्तभक्षणे निःशूकतारुपाऽन्तःविराधनाऽतिमहतीति तन्निवारणार्थं अचित्तताकरणमनुज्ञातमिति । तथैकदा भक्षितसचित्तको जातहीनसंवेगो निष्कारणमपि पश्चात् सचित्तं भक्षयेत्, तमवलम्ब्य चान्योऽपीत्यनवस्थादोषः । यद्यपि अपवादतो दोषसेवने निःशूकता भवेदेवेति न नियमः, तथाऽपि अपरिणतान् मन्दचारित्रपरिणामान् आश्रित्य तत्सम्भावनामाश्रित्यैतद्व्यवहारो व्यवस्थित इति । एतच्च उपदेशरहस्ये "मन्दक्षयोपशमवति व्यभिचारवारणाय प्रायोग्रहणम्" इति वचनेन महोपाध्यायैः स्पष्टीकृतम् । ___ तथा च तत्पाठः → द्रव्यादिप्रातिकूल्ये यतीनामेषणाशुद्ध्यादावध्ययनादौ च शक्तिविच्छेदात्कथं यतित्वाऽप्रच्यवः स्यादित्याशक्याह-द्रव्यादयश्च प्रायो = बाहुल्येन बाह्याभावेऽपि = कायिकादिबहिर्व्यापारव्याघातेऽपि भावहराः = यतनापरिणामोपघातका न भवन्ति, प्रायो ग्रहणं मन्दक्षयोपशमवति व्यभिचारवारणाय - इति । श्रावकाणामपि सचित्तभक्षणपरित्यागोपदेशोऽनया रीत्या यथासम्भवं विभावनीय इत्यलं विस्तरेण । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ७० सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy