Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 84
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல nepapedagopsiproproproggegoogiegoesopropropriesdecogogandgsoocop (५२) यः पार्श्वस्थादौ वसतो विधिः प्रतिपादितः, एवमेव अहाछन्देऽपि विधिदृष्टव्यः, केवलमयं विशेष:- तस्याहाछन्दस्य धर्मकथां कुर्वतोऽसन्मार्गप्ररूपिकां तेन साधुना प्रतिहननं व्याघातः कर्त्तव्यः, यथैतदेवं न भवति, अथ तद्धर्मकथायाः प्रतिघातं कर्तुं न शक्नोति ततो ध्यानं करोति, ध्यायन्नास्ते धर्मध्यानम्, अथ तथाऽपि धर्मकथां करोति, ततः धर्मकथाव्याघातार्थमध्ययनं करोति, अथ तथाऽपि न तिष्ठति, ततः कौँ स्थगयति धर्मकथाव्याघातार्थमिति । अथवा सुप्तः सन्घोरयति - घोरणं करोति, महता शब्देन, सोऽपि निर्विण्णः सन्नुपसंहरति धर्मकथामिति । (ओ.नि. १११) tos deyos dohary favos bosdeyos bhos doh ohday s dodh boys desh keskosh ke s days agof Asoftos doyf big , चन्द्र. सर्वोऽप्येष आयासः 'यथाच्छन्दस्योत्सूत्रप्ररुपणा स्वस्य परस्य च कर्णकोटरे मा प्रविशतु' इत्येतदर्थः । आस्तां तावत्तद्धर्मकथाश्रवणम्, दर्शनमपि तेषां प्रतिषिद्धं, तदाह 'संबोधसित्तरिग्रन्थे उम्मग्गदेसणाए चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु न हु लब्भा तारिसा दटुं' इति । निह्नवाः उन्मार्गदेशनया स्वस्य परस्य च जिनवरेन्द्रसत्कं चारित्रं नाशयन्ति, ते चोत्सूत्रप्ररुपणाद् व्यापनसम्यग्दर्शनाः सन्तो दृष्टुमपि न कल्पन्त इति एतद्गाथासक्षेपार्थः । यथाच्छन्दानां तु अपेक्षया निह्नवतोऽपि हीनतरत्वस्य धर्मपरीक्षादौ प्रतिपादनात्सुतरां दर्शनानर्हत्वमिति । ___ इदमत्र स्पष्टीकर्तव्यं – पार्श्वस्थादयो हि कथञ्चिदाचारभ्रष्टाः सन्तोऽपि सम्यग्दर्शिनोऽपि सम्भवन्ति, चारित्रमोहोदयजन्ये क्रियामान्येऽपि मिथ्यात्वमोहक्षयो-पशमजन्यायाः जिनवचनश्रद्धाया अक्षतत्वसम्भवात् । यथाच्छन्दास्तु आचारयुक्ताः सम्भवन्तोऽपि मिथ्यात्विनो भवन्ति, तथाविधस्पृहादिवशतः क्रियो द्यमे सत्यपि मिथ्यात्वमोहोदयजन्यायास्तथाविधोत्सूत्रप्ररुपणायाः सम्यक्त्वविनाशकत्वात् ।। तथा पार्श्वस्थादयः संविग्नपाक्षिकत्वसम्भवे ससूत्रप्ररुपणाकारित्वात् न परेषां शिथिलाचार-मिथ्यात्वादिदोषापादकाः । यथाच्छन्दास्तु उत्सूत्रप्ररुपणाकारित्वात् आचारसहितानामपि परेषां मिथ्यात्वापादनेनाधिकदोषा इति अन्यदपि सूक्ष्ममूहनीयमिति । ஒஒஒஒஒஒஒஒஒஒஒஒஒஒ ஓலைவைஷஷஜை सिद्धान्त रहस्य बिन्दुः ८१

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206