________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல nepapedagopsiproproproggegoogiegoesopropropriesdecogogandgsoocop (५२) यः पार्श्वस्थादौ वसतो विधिः प्रतिपादितः, एवमेव अहाछन्देऽपि
विधिदृष्टव्यः, केवलमयं विशेष:- तस्याहाछन्दस्य धर्मकथां कुर्वतोऽसन्मार्गप्ररूपिकां तेन साधुना प्रतिहननं व्याघातः कर्त्तव्यः, यथैतदेवं न भवति, अथ तद्धर्मकथायाः प्रतिघातं कर्तुं न शक्नोति ततो ध्यानं करोति, ध्यायन्नास्ते धर्मध्यानम्, अथ तथाऽपि धर्मकथां करोति, ततः धर्मकथाव्याघातार्थमध्ययनं करोति, अथ तथाऽपि न तिष्ठति,
ततः कौँ स्थगयति धर्मकथाव्याघातार्थमिति । अथवा सुप्तः सन्घोरयति - घोरणं करोति, महता शब्देन, सोऽपि निर्विण्णः
सन्नुपसंहरति धर्मकथामिति । (ओ.नि. १११) tos deyos dohary favos bosdeyos bhos doh ohday s dodh boys desh keskosh ke s days agof Asoftos doyf big ,
चन्द्र. सर्वोऽप्येष आयासः 'यथाच्छन्दस्योत्सूत्रप्ररुपणा स्वस्य परस्य च कर्णकोटरे मा प्रविशतु' इत्येतदर्थः । आस्तां तावत्तद्धर्मकथाश्रवणम्, दर्शनमपि तेषां प्रतिषिद्धं, तदाह 'संबोधसित्तरिग्रन्थे उम्मग्गदेसणाए चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु न हु लब्भा तारिसा दटुं' इति । निह्नवाः उन्मार्गदेशनया स्वस्य परस्य च जिनवरेन्द्रसत्कं चारित्रं नाशयन्ति, ते चोत्सूत्रप्ररुपणाद् व्यापनसम्यग्दर्शनाः सन्तो दृष्टुमपि न कल्पन्त इति एतद्गाथासक्षेपार्थः । यथाच्छन्दानां तु अपेक्षया निह्नवतोऽपि हीनतरत्वस्य धर्मपरीक्षादौ प्रतिपादनात्सुतरां दर्शनानर्हत्वमिति । ___ इदमत्र स्पष्टीकर्तव्यं – पार्श्वस्थादयो हि कथञ्चिदाचारभ्रष्टाः सन्तोऽपि सम्यग्दर्शिनोऽपि सम्भवन्ति, चारित्रमोहोदयजन्ये क्रियामान्येऽपि मिथ्यात्वमोहक्षयो-पशमजन्यायाः जिनवचनश्रद्धाया अक्षतत्वसम्भवात् । यथाच्छन्दास्तु आचारयुक्ताः सम्भवन्तोऽपि मिथ्यात्विनो भवन्ति, तथाविधस्पृहादिवशतः क्रियो द्यमे सत्यपि मिथ्यात्वमोहोदयजन्यायास्तथाविधोत्सूत्रप्ररुपणायाः सम्यक्त्वविनाशकत्वात् ।।
तथा पार्श्वस्थादयः संविग्नपाक्षिकत्वसम्भवे ससूत्रप्ररुपणाकारित्वात् न परेषां शिथिलाचार-मिथ्यात्वादिदोषापादकाः । यथाच्छन्दास्तु उत्सूत्रप्ररुपणाकारित्वात् आचारसहितानामपि परेषां मिथ्यात्वापादनेनाधिकदोषा इति अन्यदपि सूक्ष्ममूहनीयमिति ।
ஒஒஒஒஒஒஒஒஒஒஒஒஒஒ ஓலைவைஷஷஜை सिद्धान्त रहस्य बिन्दुः
८१