SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல आगमे पार्श्वस्थादीनां नियतदोषसेवनादेः स्पष्टं प्रतिपादितत्वात् । इत्थं चाकालचारिश्रमणीयुक्तानामपि असाम्भोगिकानां पार्श्वस्थाधुचितदोषसेवनाद्यभावात् न पार्श्वस्थत्वादिकं, तदभावे च साधुलिङ्गधारिणां तथाविधसाध्वाचारपरिपालकानां च तेषां संविग्नत्वमनन्यगत्याऽऽपन्नमेवेति । न चाकालचारिसंयतीयुक्तानां तेषां संविग्नत्वं दूरापास्तमेवेति शङ्कनीयम् । निर्दोषगोचरीचर्यादिरुपस्य पारिभाषिकसंविग्नत्वस्य अकालचारिसं यत्यसहित-त्वाद्यघटितस्य तेष्वनपायात् । इत्थं च पारिभाषिकसंविग्नतासहितानां तेषां संवासमपेक्ष्य पार्श्वस्थादिहीनत्वमपि न दुर्घटम् । यथा हि सम्यक्त्वमपेक्ष्योत्तमानां श्रेणिकादीनां चारित्रमपेक्ष्य साधुहीनत्वमपि सम्भवति, तथैव संविग्नतामपेक्ष्योत्तमानां असाम्भोगिकानां अकालचारिसंयतीसहितत्वमपेक्ष्य पार्श्वस्थादिहीनत्वमपि सम्भवतीति मध्यस्थेन चेतसा निभालनीयम् । ___ यदि चैवमपि संविग्नताऽकालचारिसंयतीयुतत्वयोः परस्परं विरोध एव मनसि स्फुरति, तदा तु कालचारिसंयतीयुतत्वे सर्वथा संयतीरहितत्वे च नित्यवासिनां 'नित्यवास्यादयः' इत्यत्रादिपदग्राह्यसंविग्नासाम्भोगिकानां चान्वयः कर्त्तव्यः, अकालचारिसंयतीयुतत्वे तु केवलं नित्यवासिनामेवान्वयः, न तु संविग्नासाम्भोगिकानामिति यथासमाधानमूहनीयम् । अस्माकन्तु पारिभाषिकसं विग्न-त्वमपेक्ष्य संविग्नासाम्भो गिकानामपि अकालचारिसंयतीयुतत्वपदार्थे एव निर्भरः पूर्वापरपर्यालोचनान्मनसि परिस्फुरति, तथाऽपि यद् वदन्ति बहुश्रुतगीतार्थाः, तदेवास्माकमपि प्रमाणमित्यलमधिकेन । ननु नित्यवास्यादीनां श्रावकादीनां च मध्ये प्रथमं श्रावकादिषु संवासः किमर्थं ? नित्यवास्यादिषु साधुष्वेव प्रथमं स उक्तो युक्त इति चेत् न, श्रावकादयोऽप्यत्र स्त्रीरहिता एव गृहीताः, नित्यवास्यादयश्चापि तादृशाः, ततश्चोभयत्र स्त्रीजन्यदोषानवकाशः, परन्तु नित्यवास्यादिषु संवासे सति तत्सेवितदोषाणां संविग्नसाधौ समारोपणम्, साधुत्वसमानतायामपि चाचारभेददर्शनतो लोके मतिभेदादिकमित्येवमादयो दोषा अधिका इति तन्निरासार्थं स्त्रीरहितश्रावकादिषु प्रथमं संवसनमनुज्ञातमित्यनुमीयते । यथायोगमन्यान्यपि कारणानि अत्र सम्भावनीयानि । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ८० सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy