Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல संविग्नसाम्भोगिकाः नित्यवासिनः असाम्भोगिकाः पार्श्वस्थादयश्च गृहीताः । तत्र संविग्नसाम्भोगिकाभावेऽन्येषां त्रयाणां मध्ये कुत्रापि निवसनं अननुज्ञाप्य स्त्रीरहितश्रावकादिपरिपाटी प्रतिपादिता । तेषामप्यभावे कालचारिसंयतीयुक्ताः नित्यवास्यादयो गृहीताः । ते च यदि अकालचारिसंयतीयुताः, ततस्तान् परित्यज्य कालचारिसंयतीयुक्तेषु पार्श्वस्थादिषु सर्वथा संयतीरहितेषु वा पार्श्वस्थादिषु निवसनमनुज्ञातम् । ___ अत्र च 'कालचारिसंयतीयुताः नित्यवास्यादयः' इत्यत्र आदिपदात् केषां ग्रहणं कर्त्तव्यम्? न हि तेन पार्श्वस्थादयो गृह्यन्ते, तेषां पृथगेव गृहीतत्वात् । ततश्च अनन्यगत्या असाम्भोगिका एव गृह्यन्ते । ते च संविग्ना एव, न त्वसंविग्नाः, संविग्नेष्वेव साम्भोगिकासाम्भोगिकत्वाभ्यां द्वैविध्यस्येष्टत्वात् । यदि हि असंविग्ना अपि असाम्भोगिका भवेयुः, तर्हि पार्श्वस्थादयोऽपि असाम्भोगिका भवेयुः, ततश्चासाम्भोगिकपदेन तेषामपि ग्रहणात् तेषां पृथग्ग्रहणं निरर्थकमेवापद्येत । यदि वा पार्श्वस्थादिग्रहणेन सकलासाम्भोगिकानां ग्रहणात् असाम्भोगिकपृथग्ग्रहणं निरर्थकमा-पद्येतेति । ततश्च नित्यवासि-असाम्भोगिकपार्श्वस्थादीनां त्रितयाणामत्र ग्रहणात् असाम्भोगिकपदेन पार्श्वस्थादिभिन्ना एव ग्राह्याः, ते च संविग्ना एव, नहि पार्श्वस्थादिभिन्नाः साधवोऽसंविग्ना भवन्तीति । ___ इत्थं च नित्यवासिनां संविग्नासाम्भोगिकानां पार्श्वस्थादीनां चात्र ग्रहणं कृतमिति निश्चितम्। अत्र च नित्यवासिनां संविग्नतुल्यत्वेऽपि नित्यवासैकदोषवत्त्वेन पृथग्ग्रहणमिति बोध्यम् । तथा च नित्यवासिनः न पार्श्वस्थादयः, न वा संविग्नाऽसाम्भोगिकाः, किन्तु नित्यवासैकदोषवन्तस्ते तेभ्यः पृथग्भूताः ।।
अत्र च पाठे नित्यवास्यादीनामकालचारिश्रमणीयुक्तत्वं प्रतिपादितमस्ति, आदिपदात् संविग्नासाम्भोगिकग्रहणं भवतीति अस्माभिरनन्तरमेव प्रसाधितम् । ततश्च संविग्नासाम्भोगिकानामपि अकालचारिसंयतीयुक्तत्वसम्भवोऽर्थादापन्नः । एतच्च न घटते, यदि हि तेषां संविग्नत्वम्, कथं तर्हि अकालचारिसंयतीसहितत्वम्, अथास्ति तत्, कथं तर्हि संविग्नत्वम्, संविग्नताऽ कालचारिसंयमिसहितत्वयोः वह्निजलयो रिव एकत्रावस्थानासम्भवादिति । तथा च अकालचारिसंयतीविरहिताः सर्वथा वा संयतीविरहिताः पार्श्वस्थादयो हि अकालचारिसंयतीसहितेभ्यः संविग्नासाम्भोगिकेभ्यः सकाशादुत्तमा इत्यापन्नम् - इति । ___ अत्र समाधीयते । पार्श्वस्थत्वादिकं संविग्नत्वादिकं च निश्चयतस्तत्तदध्यवसायरुपमपि व्यवहारतोऽत्र तत्तद्दोषगुणसेवनादिरुपं पारिभाषिकमेव ग्राह्यम् । न चैतदागमाननुपाति, COCOCQKQ XO SOCOQQQQQ SO XOCXOCXOCXOXO XO SO XO XO SO GO TOGOGOGOGO सिद्धान्त रहस्य बिन्दुः
७९

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206