________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ___ एतद्विपरीतं भावमङ्गले बोध्यम् । तथाहि अर्हदादिनमस्कारः सर्वान्प्रत्यविशेषेण मङ्गलं । न तु कस्यचिन्मङ्गलं कस्यचिच्चामङ्गलमित्येवमनैकान्तिकः । तथा स नमस्कारः न अमङ्गलेनोपहन्यत इति युक्तं भावमङ्गलस्यैकान्तिकत्वमात्यन्तिकत्वञ्चेति ।
शङ्कते → विहारकरणे तावदयं विधिः प्रतिपादितः सामाचारीप्रकरणादौ यदुत उपाश्रयाबहिनिर्गमनानन्तरं यदि मार्गे किञ्चिदपशकुनं भवेत्, तर्हि प्रत्यावृत्य एकं पञ्चमङ्गलमहाश्रुतस्कन्धं गुणयित्वा पुनः निर्गन्तव्यम् । तथाऽपि अपशकुने सति पुनः प्रत्यावृत्य द्वौ नवकारौ गुणयित्वा पुनः निर्गन्तव्यम् । तथाऽपि अपशकुने सति पुनः प्रत्यावृत्य लघुपर्यायस्य साधोः पुरस्करणं कृत्वा पुनः निर्गन्तव्यम् । तथाऽप्यपशकुने सति तु प्रत्यावृत्य गुरोः सर्वं निवेदयितव्यम्। पश्चाद् यद् गुरवो वदन्ति, तदेव प्रमाणमित्यादि ।
अत्र हि अपशकुनममङ्गलमेव, तेन च अर्हदादिनमस्काररुपं भावमङ्गलमुपहन्यत एव, अत एव च प्रत्यावर्तनं क्रियते, भावमङ्गलोपहननाभावे तु अपशकुने सत्यपि निर्गमनमेव कार्यं स्यात् न तु प्रत्यावर्तनादि, ततश्चैतत्कथं श्रद्धेयं ? यदुत भावमङ्गलं अमङ्गलेन नोपहन्यत – इत्यादि । ___ अत्र समाधानन्त्विदं → भावमङ्गलं द्रव्यामङ्गलेन नोपहन्यते, प्रबलेन भावामङ्गलेन तूपहन्यत एवेति न कश्चिद् दोष इति ।
ननु अपशकुनं द्रव्यामङ्गलमेव, न तु भावामङ्गलं, तेनैव च भावमङ्गलमत्रोपहन्यते, तत्कथमेतत् ? इति चेत् न, प्रकृतमपशकुनं न द्रव्यामङ्गलमपि तु मङ्गलमेवेति ।
ननु किमिदमश्रुतपूर्वं भवता श्राव्यते ? 'अपशकुनं मङ्गलं' इति तु मूर्योऽपि न श्रद्दधाति, भवास्तु मतिमानपि किमिदमसञ्जसं प्रलपसीति चेत् मुग्धोऽसि, न जानासि शास्त्ररहस्यम् । सकर्णो भूत्वा श्रुणु तावत्कर्णामृतायमानं शास्त्ररहस्यम् ।। __राजा राजभवनरक्षणाय सैनिकान्स्थापयति, ते च सैनिकाः राजभवने चौराद्यागमनं राजानं निवेदयन्ति, किं राजा तान् सैनिकान् अशोभनान् मन्यते ? यदुत "रात्रौ युष्माभिः चौराद्यागमननिवेदनाय मन्निद्राविघ्नं कृतं, अशोभना यूयमिति । किं वा तान् शोभनान् मन्यते ? यदुत "मन्निवेदनेन राजभवनं संरक्षितं भवद्भिः, धन्यवादोऽस्तु भवतामिति ।
सैनिका हि न चौरादीनि विघ्नानि उत्पादयन्ति, परन्तु उत्पद्यमानानि विघ्नानि ज्ञापयन्ति । अत एव ते शोभना एव । एवं अपशकुनं उदयमागच्छद् पापकर्मात्मकं विघ्नं ज्ञापयति, न तु स्वयं तदुत्पादयतीति अपशकुनं सैनिकवन्मङ्गलमेवेति स्पष्टमेवेति ।
यथा हि चौरादिविघ्नाभावे सैनिका न राजानं किमपि निवेदयन्ति, एवमेव லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
२०