________________
७०७०७७०७७०७०७०७०७७०७७७
ஸ்ஸ்ஸ்ஸ்ஸ்
तथाविधपापकर्माभावे त्वपशकुनं न किमपि निवेदयति, ततश्च 'अपशकुनं अमङ्गलं, तेन च भावमङ्गलमुपहन्यत' इति वचनं निर्युक्तिकमेवेति ।
ननु यदि तत्र भावमङ्गलं नोपहतं, तर्हि प्रत्यावर्तनं किमर्थमिति चेत् प्रबलेन भावामङ्गलेनोपहतत्वादिति जानीहि ।
ननु किं तत्र भावामङ्गलमिति चेत् उदयमागच्छत्प्रबलं तथाविधं पापकर्मैवेति ।
ननु पापकर्म तु द्रव्यभूतत्वाद् द्रव्यामङ्गलं, न तु भावामङ्गलमिति चेत् सत्यम्, तथाऽपि भावामङ्गलजन्यत्वात् कार्ये कारणोपचारात्तस्य भावामङ्गलत्वमपि अविरुद्धमिति ।
अयं भावः, तत्पापकर्म जीवेन प्राक्काले येनाशुभाध्यवसायेन निबद्धं, स एवाशुभाध्यवसायो भावामङ्गलं तच्च भावामङ्गलं प्रस्तुतभावमङ्गलात्प्रबलमिति भवति तेन प्रस्तुतभावमङ्गलोपघात इति ।
अपशकुनस्य मङ्गलत्वं तु दुर्निमित्तोपनिपातस्तु तज्ज्ञापकोऽदृष्ट-वशादेवोपतिष्ठते पुण्यवत एवानिष्टज्ञानेनानिष्टप्रवृत्तिप्रतिरोधसम्भवादिति सामाचारीप्रकरणपाठादेव सिद्धमिति ।
ॐ
ஸ்ஸ்ஸ்
se me in the conte
(५) समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति । (ओ.नि. १-२ )
cododcodeoscootosbooooooooooooooootosbos Body Bodo Bos Postobodeos
चन्द्र. ये द्वे क्रिये पूर्वापरकालभाविन्यौ, ययोश्च क्रिययोः कर्ता एक एव, तयोः क्रिययोः मध्ये पूर्वकालीनक्रियायां क्त्वा प्रत्ययो भवति । तथ 'चैत्रः गृहं गत्वा भुनक्ति' इत्यत्र गमनं भोजनं च इति द्वे क्रिये भवतः । तत्र गमनक्रिया पूर्वकालभाविनी, भोजनक्रियाऽपरकालभाविनी, द्वयोश्च कर्ता चैत्र एक एव, अतोऽत्र पूर्वकालभाविन्यां गमनक्रियायां क्त्वाप्रत्ययो भवतीति ।
२०७०९७०७९२
सिद्धान्त रहस्य बिन्दुः
अनेन त्वाप्रत्ययनियमेनैकान्तनित्यवादस्यैकान्तानित्यवादस्य च निरासः कृतो भवति तथाहि येषां मते आत्मा एकान्तेन नित्य:, तेषां मते आत्मा सदैव एकस्वरुप एव भवति, न तु पूर्वकालेऽन्यादृशोऽपरकाले चान्यादृशः, ततश्च यदि चैत्रात्मा पूर्वकाले गमनक्रियापरिणतः, ततः स अपरकालेऽपि गमनक्रियापरिणत एव भवति, न तु व्यपगतगमनक्रियापरिणामः अङ्गीकृतभोजनक्रियापरिणामश्च, एकान्तनित्यत्वविरोधात् । तस्मात् तेषां मते आत्मनि पूर्वापरकालभाविभिन्नक्रियाकर्तृत्वमसङ्गतमिति क्त्वाप्रत्ययोऽपि दुर्घट एवेति ।
२१
9