SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல येषां मते आत्मा एकान्तेनानित्यः, तेषां मते गमनक्रियाकालीन आत्मा अनन्तरक्षणे विनष्ट एवेति अनन्तरक्षणे अन्य एव कश्चिदात्मा, ततश्च भोजनक्रियाकर्ता आत्मा गमनक्रियाकर्तृसकाशाद्भिन्न एवेति द्वयोः क्रिययोः कर्ता एको न भवतीति अत्रापि क्त्वाप्रत्ययो दुर्घटः । तस्मात् कथंचिन्नित्यानित्य एवात्मनि क्त्वाप्रत्ययो घटत इति शोभनोऽयं निष्कण्टक: स्याद्वादमार्ग इति । ാഹം മാറ്റമുണ് (६) अर्हत्प्रोक्तं गणधरदृब्धं प्रत्येकबुद्धदृब्धं च । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रं ॥ (ओ.नि. १-२) opi keylion dod ko sirohi koitoriod deodor dot dotkomikodio dikodioideodos चन्द्र. गणधरग्रथितं प्रत्येकबुद्धग्रथितं चतुर्दशपूर्वधरदशपूर्वधरग्रथितं चेत्येवं त्रिविधं सूत्रं प्रमाणं भवति । एतच्च त्रिविधमपि सूत्रं अर्थतो अर्हत्प्रोक्तमेव भवति, न कदाचिदपि तद्विसदृशमिति अर्हत्प्रोक्तमिति विशेषणं न व्यवच्छेदकमपि तु स्वरुपावबोधकं । न हि गणधरादिग्रथितं त्रिधा सूत्रं अर्हत्प्रोक्तं अनर्हत्प्रोक्तञ्चेति द्विविधं भवति, येन अनर्हत्प्रोक्तव्यवच्छेदकमिदं विशेषणं स्यात् । अथवा हेतुगर्भितमिदं विशेषणम् । तथाहि गणधरादिदृब्धं सूत्रं प्रमाणभूतं अर्थतोऽर्हत्प्रोक्तत्वात् इत्येवमनुमानमत्रोह्यम् । ननु तर्हि हरिभद्रसूरिप्रभृतिभिर्दृब्धानि प्रकरणानि प्रमाणभूतानि न वा ? इति चेत् यदि हि तानि प्रतिपादितत्रिविधसूत्रानुसारीणि, तर्हि तेषामप्यर्थतोऽर्हत्प्रोक्तत्वात्प्रमाणभूतत्वमक्षतमेव, अन्यथा तु नेति । ___ ननु तानि प्रकरणानि प्रतिपादितत्रिविधसूत्रानुसारीणि न वेति कथं ज्ञायते ? इति चेत् बहुगीतार्थसंविग्नपरिगृहीतत्वहेतुनेति । नियुक्तिभाष्यचूर्णिवृत्तयश्च सूत्रस्यार्थभूता बोद्धव्याः, कुत्रचित्ता अपि सूत्रत्वेन व्यवहीयन्ते, तदपि उपचाराददुष्टमेव । N லலலலலலலலலலலலலலலலலலலலலலலலலலலல २२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy