Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல श्लो के प्रतिपादितानि । तथा हि हस्ताभ्यां हननचौ र्यादिकं, पादाभ्यां अन्तःपुरादिनिषिद्धस्थानगमनम्, जिह्वाग्रेण राजनिन्दाराजशत्रुप्रशंसादिकं, इन्द्रियैश्च मांसभक्षणागम्यगमनादिकं राजापराधे निमित्तं सम्भवति । साधवश्च सुनियन्त्रितसर्वनिमित्तकाः न राजापराधिनो भवन्तीति राजभयं तेषां नोपपद्यत इति ।
अत्र निमित्तमध्ये जिह्वाग्रग्रहणं गूढाभिप्रायकं । तथा हि – यद्यपि राजाऽधार्मिकोऽपि भवति, हिंसको भोगलम्पटश्चापि भवति, तथाऽपि तत्कोपकरं तु न किञ्चिदपि वक्तव्यम्, सङ्घस्य शासनस्य च महदापन्महोदधिनिमग्नत्वप्रसङ्गात् । अत एव तच्छत्रोर्गुणवतोऽपि तत्कोपकरी प्रशंसा न कर्त्तव्या, तत एव तदुपदेशदाने तु यथालाभं यथावसरं च यत्नो न निषिध्यते । परन्तु तत्रापि अत्यन्तमप्रमतेन भाव्यम् । यथाकथंचित्प्रमादे तु प्रकोपतप्तनृपसकाशादनन्तरोक्तदोषोद्भवः प्रायोऽनिवार्यः । ___ तथा धर्मस्य राजनिश्रितत्वमपि सर्वथा न निर्भयम्, तत्कालीनप्रचुरलाभसम्भवेऽपि धर्मानुरागिराजप्रद्वेषिराजान्तरसत्तायां सत्यां सङ्घादीनां महत्कष्टस्यानिवार्यत्वप्रसङ्गात् । अत्र दृष्टान्तः कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिप्रतिबोधितकुमारपालमरणानन्तरभावित-त्प्रद्वेषिअजयपालसत्ता आर्यसुहस्तिप्रतिबोधित-सम्प्रतिराडनन्तरभाविसाधुमस्तकघातप्रत्ययसुवर्णमुद्राप्रदायकराजसत्ता चेति । किञ्च धर्मस्य राजाश्रितत्वे राजानुवृत्या प्रजासु धर्मप्रभावनायां सत्यामपि सा प्रायो न बद्धमूला, राजप्रभावेन प्रवृत्तत्वात्, अत एव भावधर्मप्रभावना तत्र प्रायोऽल्पीयसी, राजानुसरणभावमूलकत्वात् । साक्षात्प्रजाश्रितत्वे तु तस्य, प्रजाभिः स्वोल्लासेन तद्ग्रहणात् बद्धमूलत्वेन भावधर्मप्रभावना महीयसीति ।। ___ किं बहुना ? स्याद्वादमये जिनप्रवचने यथा यथा मोक्षानुगुणता भवति, तथा तथा प्रयतितव्यम्, न तु कुत्राप्येकान्त इति सप्रसङ्गमुक्तमेतत्सूक्ष्ममीक्षणीयमिति ।
Jalopsipcopcopclipstigeopropropsgopsopropopmeecapsopropshpeopropologropsop, (२४) निव्विसए भत्तपाणपडिसेहे उवगरणहरे अ एत्थ गच्छेण चेव वच्चंति, जत्थ य जीवियचरित्तभेओ तत्थ एगाणिओ होज्जा । (ओ.नि.भा. २५-२६) Sod ego eye முத்திருக்கும் இடும் இடும் அரும் இரத்தமும் தமக்குக் கடும் கருவிக்கும் மேல் மேல் கால் இரவிக்கும் திருக்கும்
चन्द्र. ननु अत्र उपकरणहारिणि राज्ञि गच्छेनैव गमनमनुज्ञातं, जीवितचारित्रभेद एवैकाकित्वं निगदितम् । अनन्तरभाष्यगाथावृत्तौ तु "उपकरणहारिजीवितचारित्रஒவைஷலைலைலைலைலைலைலைலைலைலைலைலலை सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206