SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல श्लो के प्रतिपादितानि । तथा हि हस्ताभ्यां हननचौ र्यादिकं, पादाभ्यां अन्तःपुरादिनिषिद्धस्थानगमनम्, जिह्वाग्रेण राजनिन्दाराजशत्रुप्रशंसादिकं, इन्द्रियैश्च मांसभक्षणागम्यगमनादिकं राजापराधे निमित्तं सम्भवति । साधवश्च सुनियन्त्रितसर्वनिमित्तकाः न राजापराधिनो भवन्तीति राजभयं तेषां नोपपद्यत इति । अत्र निमित्तमध्ये जिह्वाग्रग्रहणं गूढाभिप्रायकं । तथा हि – यद्यपि राजाऽधार्मिकोऽपि भवति, हिंसको भोगलम्पटश्चापि भवति, तथाऽपि तत्कोपकरं तु न किञ्चिदपि वक्तव्यम्, सङ्घस्य शासनस्य च महदापन्महोदधिनिमग्नत्वप्रसङ्गात् । अत एव तच्छत्रोर्गुणवतोऽपि तत्कोपकरी प्रशंसा न कर्त्तव्या, तत एव तदुपदेशदाने तु यथालाभं यथावसरं च यत्नो न निषिध्यते । परन्तु तत्रापि अत्यन्तमप्रमतेन भाव्यम् । यथाकथंचित्प्रमादे तु प्रकोपतप्तनृपसकाशादनन्तरोक्तदोषोद्भवः प्रायोऽनिवार्यः । ___ तथा धर्मस्य राजनिश्रितत्वमपि सर्वथा न निर्भयम्, तत्कालीनप्रचुरलाभसम्भवेऽपि धर्मानुरागिराजप्रद्वेषिराजान्तरसत्तायां सत्यां सङ्घादीनां महत्कष्टस्यानिवार्यत्वप्रसङ्गात् । अत्र दृष्टान्तः कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिप्रतिबोधितकुमारपालमरणानन्तरभावित-त्प्रद्वेषिअजयपालसत्ता आर्यसुहस्तिप्रतिबोधित-सम्प्रतिराडनन्तरभाविसाधुमस्तकघातप्रत्ययसुवर्णमुद्राप्रदायकराजसत्ता चेति । किञ्च धर्मस्य राजाश्रितत्वे राजानुवृत्या प्रजासु धर्मप्रभावनायां सत्यामपि सा प्रायो न बद्धमूला, राजप्रभावेन प्रवृत्तत्वात्, अत एव भावधर्मप्रभावना तत्र प्रायोऽल्पीयसी, राजानुसरणभावमूलकत्वात् । साक्षात्प्रजाश्रितत्वे तु तस्य, प्रजाभिः स्वोल्लासेन तद्ग्रहणात् बद्धमूलत्वेन भावधर्मप्रभावना महीयसीति ।। ___ किं बहुना ? स्याद्वादमये जिनप्रवचने यथा यथा मोक्षानुगुणता भवति, तथा तथा प्रयतितव्यम्, न तु कुत्राप्येकान्त इति सप्रसङ्गमुक्तमेतत्सूक्ष्ममीक्षणीयमिति । Jalopsipcopcopclipstigeopropropsgopsopropopmeecapsopropshpeopropologropsop, (२४) निव्विसए भत्तपाणपडिसेहे उवगरणहरे अ एत्थ गच्छेण चेव वच्चंति, जत्थ य जीवियचरित्तभेओ तत्थ एगाणिओ होज्जा । (ओ.नि.भा. २५-२६) Sod ego eye முத்திருக்கும் இடும் இடும் அரும் இரத்தமும் தமக்குக் கடும் கருவிக்கும் மேல் மேல் கால் இரவிக்கும் திருக்கும் चन्द्र. ननु अत्र उपकरणहारिणि राज्ञि गच्छेनैव गमनमनुज्ञातं, जीवितचारित्रभेद एवैकाकित्वं निगदितम् । अनन्तरभाष्यगाथावृत्तौ तु "उपकरणहारिजीवितचारित्रஒவைஷலைலைலைலைலைலைலைலைலைலைலைலலை सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy