________________
ܘ9999999
आलोचक्गुणास्तत्रापेक्षणीया इति । अगीतार्थो यदि आलोचनां गृह्णाति, प्रायश्चितं च ददाति, तर्हि तस्य महान् दोष:, यदुक्तमुपदेशमालायां आसायण मिच्छतं आसायणवज्जणा उ सम्मत्तं आसायणानिमित्तं कुव्वइ दीहं च संसारं । ← अगीतार्थो यदि आलोचनां गृहीत्वा प्रायश्चित्तं ददाति, तर्हि शास्त्रावबोधाभावात् कुत्रचित्प्रायश्चित्ताभावेऽपि प्रायश्चित्तं ददाति, कुत्रचिच्चाल्पप्रायश्चित्तेऽपि बहुप्रायश्चित्तं ददाति । इत्थं च सूत्रविरुद्धमपि सूत्रनाम्ना व्यवहरन्नगीतार्थः सूत्रस्य महतीमाशातनां करोति । एषा चाशातना मिथ्यात्वं, आशातनात्यागश्च सम्यक्त्वम्, अगीतार्थश्चैतदाशातनानिमित्तं स्वस्य संसारं दीर्घं करोतीति सङ्क्षेपार्थः ।
इत्थं परहितभावनयाऽपि अगीतार्थेन न परेषामालोचना ग्रहीतव्या, प्रायश्चित्तं वा दातव्यम्, परन्तु गीतार्थसमीपे आलोचना ग्राहयितव्या, गीतार्थाज्ञया तु धारणाव्यवहारमनुसृत्यागीतार्थोऽपि यदि आलोचनाग्रहणादिकं कुर्यात्, तर्हि न दोष इत्यंपि अनुसन्धेयमत्र ।
इदमुपलक्षणं उपदेशदीक्षादानादावपि गीतार्थेन तदनुमत्यैवागीतार्थेन च प्रयतितव्यम्, नान्येन, अनधिकारिकृतत्वेन निष्फलत्वसम्भवात्, आशातनादिना स्वस्य परस्य च महापायसम्भवाच्चेति ।
आलोचना च सामान्यतः प्रतिदिनं विशेषतश्च प्रतिपक्षं प्रतिमासं प्रतिचतुर्मासं सांवत्सरिकपर्वणि चावश्यं कर्त्तव्या, प्रायश्चितं च यथादत्तं सम्यग्वोढव्यम्, आत्मशुद्धेः प्रायस्तदविनाभावित्वात् । तथाविधानां आलोचना ग्राहकाणामलाभे तु प्रतीक्षाऽपि न दुष्टा, कालासहिष्णुतयाऽगीतार्थादीनां सकाशे तत्करणे दोषबाहुल्यं न दुःशकमित्यपि न विस्मरणीयम् ।
(२३) आह- कथं पुनः साधूनां त्यक्तापराधानां राजभयं भवति ? " यस्य हस्तौ च पादौ च जिह्वाग्रं च सुयन्त्रितम् । इन्द्रियाणि च गुप्तानि तस्य राजा करोति किं ?" सत्यमेतत्... । (ओ.नि. भा. २५-२६ )
potoscostosooooooooooooooooooooooooooo
चन्द्र. राजा हि प्रायशः शिष्टः एव भवतीति स निरपराधान् न दण्डयति, अत एवात्रोक्तं 'त्यक्तापराधानां साधूनां राजभयं कथं भवति' इति । राजापराधे च निमित्तीभूतानि वस्तूनि
ஸ்ஸ்ஸ்ஸ்ஸ்ல
४४
ஸ்ஸ்ெஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः