________________
வலலலலலலலலலலலலலலலலலலலலலலலலலலல अशिवग्रस्तं निःसहायं मुक्त्वा गन्तुं प्रयतते ? किञ्च बृहत्कल्पवृत्तावपि उक्तं यदुत "म्लेच्छादिभयेऽवि नाचार्येण ग्लानं निःसहायं मुक्त्वा नंष्टव्यम्, किन्तु जीवितव्यनिरपेक्षेण परमबन्धुकल्पेनाचार्येण स्कन्धे समारोप्य तं ग्लानं तत्स्थानान्निर्गन्तव्यम्। “यद्यपि चैवं भारवशेन गमनगतिः स्खलिता भवेत्, ततश्च म्लेच्छादिहस्ते निपतितव्यमपि स्यात्, जीवितव्यशङ्काऽपि भवेत्, तथापि आचार्येण ग्लानसमाधानार्थं स्वजीवितव्यमपि नापेक्षणीयं इति। इत्थं च बृहत्कल्पवृत्तिभावार्थ-विचारणे तु प्रकृतमोघनियुक्तिवचनं स्वार्थपरायणताप्रतिपादनपरं जिनागमविरोधि आभाति - इति ।
तत्र समाधीयते । आत्यन्तिकोत्सर्गप्रतिपादनपरं बृहत्कल्पवृत्तिवचनं न प्रकृतवचनविरोधि, प्रकृतवचनस्योत्सर्गसापेक्षापवादपरायणत्वात् । अत एव बृहत्कल्पवृत्तावपि अनन्तरमेवापवादः प्रदर्शित एव । युक्तमपि चैतत् । यतो हि अत्र सकलस्यापि गच्छस्य निवासेऽपि न ग्लानरक्षणं शक्यम्, प्रत्युत गच्छस्य महद्विघ्नसम्भावना, ततश्च गच्छहानात् शासनहानिर्बुवा । एकादिसाधुनिवासेऽपि ग्लानस्य तस्य च द्वयोरपि विनाशसम्भवात् न कोऽपि गुणः, तस्मात् तत्र निर्गमनं न दुष्टमिति । ___ वैयावृत्यमाहात्म्यपराणि वचनानि तु व्ययसकाशादधिकलाभे सत्येव मन्तव्यानि, व्ययस्यैव अधिकत्वे तु प्रकृतमेव वचनमनुसरणीयम् । किञ्च बृहत्कल्पवृत्तिवचनं "आचार्येण निजजीवितव्यरक्षणार्थं ग्लानादित्यागो न कर्त्तव्यः" इति ज्ञापयति, गच्छरक्षणार्थं गच्छाद्यर्थं स्वरक्षणाय च तथाविधस्त्यागः वस्तु तोऽत्यागत्वान्निदोषः । ऐहिकस्वार्थमात्रलुब्धेन न भवितव्यमाचार्येण, आयतिलाभानुसारेण तु यथायोग्यं यतनायां न कोऽपि दोष इति विवेकः । तथा च न वचनद्वयस्य परस्परं विरोध इति सिद्धं ।
ഉളുടിപ്പിച്ചിട്ടിട്ടുള്ളതുമെഴുതുമൊഴിച്ചുതിക്കൂട്ടുകൂടുകൂട്ടുമെതിച്ചിട്ടിമുട്ടിക്കൂട്ടുകൂട്ടിമുട്ടിക്കൊണ്ടുകെ (२२) रत्नाधिकस्य गीतार्थस्य पूर्वप्राप्तस्य पश्चात्प्राप्तस्य वा आलोचना
देया, तदभावे लघोरपि गीतार्थस्य दातव्या । ( ओ.नि.भा. २२) தாமோதரம் பழம் சாப்பிடும் போல் திரும்பப்படும் ரோல் ரோம்ரேல் திக்கும் போல் தேக்கும் மேல் தோல் கரம்
चन्द्र. इत्थं चालोचनाग्रहणाधिकारित्वं रत्नाधिकस्यावमरात्निकस्य वा गीतार्थस्यैवेति, आलोचनादानाधिकारस्तु गीतार्थस्यागीतार्थस्य वा कस्यापि भवति केवलं स्थानाङ्गोक्ता 00000202090900000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
४३