SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல "मृतकसाधुसम्पृक्तं तदसम्पृक्तं वा तदीयोपकरणं सर्वं न परिभोग्यं" इति च सामाचारी तत्र तत्र गच्छे श्रूयते । सा च तत्तद्गच्छीयैस्तथैवानुसरणीयेति । इदमुपलक्षणं उत्प्रवजितोपकरणेऽपि अनन्तरोक्तमेव बोध्यम् । तथाहि उत्प्रव्रजितकण्डरीकोपकरणं प्रवजितुकामेन पुण्डरीकेण गृहीतमुपभुक्तं च । न चैतदृष्टान्तमात्रम्, न तावता पदार्थसिद्धिरिति शङ्कनीयम् । व्यवहारभाष्ये १२७० प्रभृतिगाथावृत्तौ अवधावितोपकरणपरिग्रहस्य स्पष्टमेवोक्तत्वात् । तथाऽपि गच्छीयसामाचारी यदि तदुपकरणपरिष्ठापनरूपैव, तर्हि सैव समाचरणीया जीतव्यवहारं प्रमाणयद्भिः साधुभिः, न तु शास्त्रवचनं पुरस्कृत्य सामाचारीभङ्गपरायणैर्भवितव्यमिति । अन्यथा हि प्रभूतानां वर्तमानसामाचारीणां त्याज्यत्वप्रसङ्गो भवेत्, तद्विपरीतशास्त्रपाठानामुपलभ्यमानत्वादित्यलं विस्तरेण । ആർജ്ജിച്ചെടുക്കൂട്ടുകളും മുരളുമെടുക്കുമിടുക്കിക്കെട്ടുള്ള മെർളിർമ പക (२१) अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह - अनिच्छति तस्मिंस्तस्य साधोर्गमनं तद्दिवसं स्थित्वा छिद्रं लब्ध्वा नंष्टव्यम् । (ओ.नि.भा. २१) Bodkootodily dikolloohodikodikodiyoddroikyidiokoolkodio dikodkyi diyosino ko ___ चन्द्र. अशिवकारिदेवतायाः सकाशाद् गच्छस्याशिवादिकं विघ्नं मा भूत् इत्येतदर्थं गच्छ: अशिवग्रस्तं साधुं तत्र मुक्त्वा निजिगमिषति । तत्र चाशिवग्रस्तस्येदं कर्त्तव्यं यदुत तेन गच्छः सुखं विसर्जनीयः, मा मदर्थं सर्वेऽपि म्रियन्तामिति । किन्तु "अहमेकाकी भविष्यामि, असमाधिमरणं भविष्यति मम' इत्यादिचिन्तया स गुणरत्नाधारस्य श्रमणगच्छस्य चिन्तां मुक्त्वा स्वार्थपरायणो भूत्वा न गच्छं विसर्जयति, रोदीति च, तदा एकं साधुं समर्थं तत्र स्थापयित्वा सकलो गच्छो निर्गच्छति, सोऽपि च साधुः तं अशिवग्रस्तं स्वविसर्जनाय प्रार्थयति, तत्रापि धर्मनिरपेक्षो भूत्वा स यदि न विसर्जयति, तदा समर्थः साधुः केनापि व्याजेन तस्मात्स्थानान्निर्गच्छतीति सङ्क्षेपार्थः ।। अत्र भवतीयमाशङ्का → "सव्वं किल पडिवाइ वेयावच्चं अपडिवाइ, जो गिलाणं पडिसेवइ सो मां पडिसेवइ" इत्यादि शास्त्रवचनानि वैयावृत्यमाहात्म्यप्रतिपादकानि किं तेन गच्छेन विस्मृतानि ? येन जीवितव्यरक्षणार्थं एकं லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः ४२
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy