________________
०७०७७०७०७०७७०७०७७०७०७७७७७७७७७७७७७०७०७७०७
इति पदमुपात्तं वृत्तिकृता । न हि शीघ्रविहारे मासकल्पयोग्यक्षेत्रोल्लङ्घने मासकल्पभङ्गे च 'विश्वस्ता' इति विशेषणं सङ्घटत इति निर्मलधिया ध्येयम् ।
अयं चोत्सर्गः, स चापवादाविनाभावी, स चापवाद ओघनिर्युक्तौ प्रदर्शित एव । वर्तमानकाले तु संयमयोग्यक्षेत्राभावादिकारणवशात् गुर्वाज्ञानुसारेण विहर्त्तव्यमिति कल्पसूत्रसुबोधिकायां विनयविजयोपाध्यायाः प्राहुः ।
तच्च युक्तमेव "कालस्स य परिहाणी संजमजोग्गाइ नत्थि खेत्ताइ । जयणाए वट्टिअव्वं न हु जयणा भंजए अंगं" इति उपदेशमालावचनप्रामाण्यात् ।
=
तद्वृत्तिश्च लेशत इयं संयमयोग्यानि न सन्त्यधुना क्षेत्राणि, अतो यतनया आगमोक्तगुणदोषाश्रयणपरिहारलक्षणया वर्तितव्यं यापनीयम् । यतो नहु नैव यतना क्रियमाणा भनक्ति विनाशयति अङ्गं प्रक्रमात् संयमशरीरम् ← अत्रेदं सम्यग् धारणीयम्, यद्यपि कालक्षेत्रादिहानिवशात् गुर्वाज्ञया विहारकरणं युक्तमेव, तथाऽपि मासकल्पादिसामाचार्या विच्छेदो न निगदितः, मालायां च यतनाकरणं उपदिष्टं यतना च “यथा यथा संयमस्वाध्यायादिस्फातिर्भवति, तथा तथा प्रवृत्तिः" इत्येवंरूपैव । ततश्च मासकल्पादिसदृशसमाचरणे यथासम्भवं यत्नो विधेय इति ।
=
(२०) अह कालं करेइ ताहे जं तस्स उवगरणं तं सव्वं छड्डिज्जइ । (ओ.नि. भा. २०)
நடுவிக்கும் கடும் படும் கிடும் டும் க்கும் ம் ம் ம் கடும் படும் டும் டும்டும்
चन्द्र. अशिवगृहीतसाधोः कालधर्मे सति तस्य सत्कं सर्वमपि उपकरणं परिष्ठाप्यत इति भावः । ननु तदुपकरणोपभोगे को दोष इति चेत् अशिवगृहीतसाधूपकरणस्याशिवकारकत्वसम्भवात् तद्भोक्तुः अशिवापत्तिरेव दोष इति ।
अथैवमर्थादापन्नं अशिवरहितसाधोः मरणे सति तदुपकरणोपभोगे न कश्चिद् दोष इति चेत् सत्यम्, वस्त्रदौर्लभ्यकाले तथैव, वस्त्रसुलभताकाले च यथा गच्छसामाचारी, तथा कर्त्तव्यम्, संविग्नगीतार्थप्रवर्तिताया गच्छसामाचार्या अनुल्लङ्घनीयत्वात् । अत एव “मृतकसाधुसम्पृक्तं वस्त्रादिकं न परिभोग्यम् तदसम्पृक्तं तु तदीयोपकरणं परिभोग्यं” इति ।
७०७०९७०७ ४१
२०७०७०७९५ सिद्धान्त रहस्य बिन्दुः