SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ७०७०७०७०७०७८०७०७७७७७७७७०७७७४ १७०७०७०७०७ बहवो दोषाः यथाजीवं सम्भवदुत्पत्तिका भवन्ति । (५) प्रतिदिनं विहारे पृथ्व्यादिषट्कायविराधना यथासम्भवं भवन्ती दुर्निवारा (६) प्रतिदिनं विहारे सति एकक्षेत्रे स्थिरताऽभावात् भद्रकश्राद्धादीनां धर्मोपदेशादिना धार्मिकत्वकरणस्य दुःशकत्वम् । न हि एकद्वित्रयादिव्याख्यानसकाशात् श्रोतॄणां सम्यग्धर्मप्राप्तिः तत्स्थैर्यं च कर्तुं पार्यत इति । एवं द्वित्र्यादिदिनविहारेऽपि यथासम्भवं दोषानुसन्धानं भावनीयम् । एवमादिदोषसम्भवान्मासकल्पविहारभङ्गो नेष्टः । ननु एवमादिदोषसम्भवे तु सर्वथैव विहारः परिहर्त्तव्यः, प्रतिदिनं विहार इव प्रतिमासं विहारेऽपि प्रकृतदोषाणामनिवार्यत्वात् इति चेत् सत्यम्, परन्तु स्थिरवासे क्षेत्रममत्वगृहिममत्वगृहस्थाप्रीतिसुखशीलताधर्मप्रभावनाहानिदेशान्तरवर्तिजीवानुपकारादीनां महद्दोषाणां सद्भावात् आयव्ययौ समालोच्य बहुदोषनिवारणार्थं प्रतिमासं विहारं समादृत्य तत्रानिवार्यत्वेन सम्भवतां दोषाणां स्वीकारे न कश्चिद्दोषः । तदाह उपदेशमालायां आयवयं तुलिज्जा लाहाकंखिव्व वणिओ इति । तस्मात् स्थिरवासं प्रतिदिनादिविहारं च द्वौ अपि दोषबहुलत्वात् परित्यज्य मासकल्पविहारः समादरणीय इति स्थितम् । तथा च मासकल्पानुसारेण विहार करणे सम्भवदशिवदेशोल्लङ्घनं वर्षादिना कालेन दुःशकमिति द्वादशसंवत्सरग्रहणं न दुष्टमिति । स्यादेतत् मासकल्पानुसारेण विहारकरणेऽपि एकवर्षादिना कालेन अशिवदेशोल्लङ्घनं सम्भवत्येव, तथा हि अस्मत्स्थानाद् सम्भवदशिवदेशपर्यन्तं यावत् यावान् भागः, तं अष्टभागेन विभज्य प्रतिमासं एकं एकं भागं उल्लङ्घ्य तत्र तत्र अष्टस्थानेषु मासकल्पः आदरणीयः, तथा च न मासकल्पभङ्गः, न वा द्वादशवर्षादेव विहारकरणापत्तिरिति । तदविचारितरमणीयम् । स्वस्थानादशिवदेशपर्यन्तं यावद्भूभागः यदि विंशत्यधिकशतादियोजनप्रमाणः स्यात्, तर्हि प्रतिमासं द्वादशयोजनप्रमाणो विहारः कर्त्तव्यः स्यात् । तदर्थं च प्रभूतदिनानि यावद् विहारः कर्त्तव्यः स्यात्, तथा च ते एव पूर्वोक्ता दोषा आपद्येरन् । किञ्च द्वादशयोजनप्रमाणे तु भागे प्रभूतानि क्षेत्राणि मासकल्पयोग्यानि सम्भवन्त्येव, तदतिक्रमे तु प्रायश्चित्तापत्तिः । तस्मात् निश्चितमेतत् यदुत अशिवसम्भवकालात् पूर्वं द्वादशवर्षादर्वागेव स्वस्थानात् विहर्त्तव्यम् । मार्गे च मासकल्पयोग्ये प्रतिक्षेत्रे मासकल्पं मासकल्पं कृत्वाऽग्रेऽग्रे विहर्त्तव्यम् । इत्थं च द्वादशवर्षकालेन सम्भवदशिवक्षेत्रोल्लङ्घनं सुखेनैव भविष्यति, न तत्र काचिच्चिन्ता, न तत्र किञ्चिद्भयम् । एतद्ज्ञापनार्थमेव 'विश्वस्ता’ XX ४० ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ெ ७७७०७७०७७०७ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy