________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல __अत्र आह कश्चिद्-द्वादशवर्षानन्तरभाव्यशिवभीत्याऽधुनैव निर्गमनमाश्चर्यकरम्, अशिकालादर्वागेकादौ मासेऽवशिष्टे एव विहर्तव्यम्, तावता कालेनाभविष्य-दशिवदेशप्राप्तेः सुकरत्वात् + इति ।
तत्र "सूत्रपौरुषीं अर्थपौरुषीं च निष्पादयन्तो....'' इत्यादि वृत्तिवचनमेव समाधानग्राहकं, संयमप्राणस्य स्वाध्यायस्य सूत्रार्थपौरुषीरूपस्य हानेरत्यन्तमनिष्टत्वात्, शीघ्रविहारे च तद्धानेरवश्यंभावित्वात् । ततश्च वृत्तिवचनेनैतद् ज्ञाप्यते यदुत यथा सूत्रार्थपौरुषीद्वयस्य व्याघातो न भवेत्, तथैव विहारः कर्त्तव्यः, तादृशश्च विहारो न मासमात्रकालेनान्यदेशपर्यन्तं कर्तुं पार्यते इति द्वादशवर्षादागेव निर्गन्तव्यमिति ।
ननु मा भवतु मासादागेव विहारः, किन्तु सूत्रार्थपौरुषीरक्षणं तु एकद्व्यादिवर्षादाग्विहारकरणेऽपि सुशकं, द्वादशवर्षादर्वाग्विहारभणनं तु न कथमपि जाघटीतीति चेत्
तत्कि 'विश्वस्ताः' इतिपदं न दृष्टवान् ? किं वा तद्पदप्रतिपाद्यां संयमसामाचारी न ज्ञातवान्? शृणु तावत्तत्पदप्रतिपाद्यं रहस्यम् । नवकल्पो विहारः साधूनां सामाचारी, तत्र ऋतुबद्धकाले अष्टस्थानेषु मासं मासं यावन्निवसनं अष्टौ कल्पाः, वर्षायान्तु एकस्मिन्नेव स्थाने चतुर्मासं यावन्निवसनं एकः कल्पः, सर्वे मीलित्वा नव कल्पा भवन्ति । निष्कारणं हीनाधिककालनिवसने प्रायश्चित्तस्य प्रतिपादनात् विना कारणं न नवकल्पविहारभङ्गः कर्तव्यः । तत्र च ऋतुबद्धकालीनोऽयं विहारः मासमासप्रमाणत्वात् मासकल्प इति व्यवहीयते । तथा च अशिवकालादेकादिवर्षादर्वाग्विहारकरणे तु प्रतिदिनं विहारः कर्त्तव्यः स्यात्, अन्यथा अशिवक्षेत्रस्यातिविस्तृतस्योल्लङ्घनासम्भवात् । तथा च भवति मासकल्पसामाचारीभङ्ग इति ।
ननु मासकल्पसामाचारीभङ्गे के दोषाः ? येन स नेष्यते ? इति चेत् इमे दोषाः (१) तीर्थकराज्ञाभङ्गः (२) प्रतिदिनं विहारकरणे स्वाध्यायहानिः
(३) प्रतिदिनं क्षेत्रपरिवर्तने संयमोचितक्षेत्रस्य प्रतिदिनं असुलभत्वात् संयमप्रतिकूलक्षेत्रप्राप्ती संयमहानिः
(४) प्रतिदिनं विहारादिना श्रमादिदोषाः, श्रमादिदोषाच्च अनेषणीयपरिभोगसदोषस्थण्डिलभूमिसेवनदिवसनिद्रापरस्परविकथाश्रावकपरिचयादयो PORRRRORX9000020299900002999900000000020290000000 सिद्धान्त रहस्य बिन्दुः
३९