SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல हारिणोर्गणभेदः कार्य" इत्युक्तम् । तत्र च उपकरणहारिण्यपि गणभेदं कृत्वैकाकित्वं अनुज्ञातम् । ततश्च स्पष्ट एव परस्पर विरोध इति चेत् अत्रेदमुत्प्रेक्ष्यते - प्रकृतप्राकृतपाठश्चूर्णिकृतोऽभिप्रायः, वृत्तिपाठस्तु वृत्तिकृतोऽभिप्राय इति मतान्तरमेतदवगन्तव्यमिति प्रथमं समाधानम् ।। __वृत्तिकृता गणभेद उक्तः, गणभेदश्च सर्वथैकाकित्वेन द्विव्यादिसमुदायरुपेण च सम्भवति । तथा च उपकरणहारिणि राज्ञि गणभेदो नैकाकित्वेन रुपेण कर्त्तव्यः, परन्तु द्वित्र्यादिसमुदायरुपेण, जीवितचारित्रहारिणि च राज्ञि एकाकित्वेन रुपेण गणभेदः कर्त्तव्यः इति वृत्तिकृदभिप्रायः । युक्तं चैतत् जीवितचारित्रहरणस्य महादोषत्वात्, एकाकित्वेनैव च तदल्पीकरणसम्भवात् । उपकरणहरणस्य तु तादृशमहादोषत्वाभावात् द्वित्र्यादिसमुदायरूपेण गणभेदस्यैकाकित्वापेक्षयाऽल्प दोषत्वात् । चूर्णिकृता तु जीवितचारित्रभेदे एकाकित्वं प्रतिपादितम्, उपकरणहारिणि च गच्छेन गमनं प्रतिपादितम्, तत्र द्विव्यादिसमुदायरूपेण गमनमपि गच्छेन गमनमेवेति वृत्तिकृच्चूर्णिकृतोर्द्वयोरभिप्राय एक एव समापन्नः यदुत उपकरणहारिणि द्विव्यादिसमुदायरूपेण गन्तव्यम्, जीवितचारित्रहारिणि च एकाकिना गन्तव्यम् । तत्र द्वित्र्यादिसमुदायः वृत्तिकृदभिप्रायेण गणभेदः, चूर्णिकृदभिप्रायेण समूहरूपत्वाद् गण इति न परस्परं विरोध इति द्वितीयसमाधानमेतत् । एतत्तावत् अस्माकं चिन्तनम् । बहुश्रुता एवात्र प्रमाणमित्यलं विस्तरेणेति । ിപ്പിക്കുമെന്നാണ (२५) ततः स जिगमिषुः साधुराचार्यस्य चैत्यसाधुवन्दनां करोति । (ओ.नि.भा.३२) broidery of dod kod krod iposikodidros deol droidos deysi iroditions चन्द्र. गुर्वादेशेन गुरूपदिष्टकार्यार्थं जिगमिषुः साधुः आचार्यस्य चैत्यसाधुवन्दनां करोतीति । अत्र 'चैत्यसाधुवन्दना' इतिपदस्य कोऽर्थः इति जिज्ञासायां बहुश्रुताः प्राहुः स साधुराचार्यं कथयति "हे गुरो ! मार्गे गच्छतो मम यावन्ति चैत्यानि साधवश्च मीलिष्यन्ति, तेषां सर्वेषां भवन्निमितं वन्दनं दास्यामि'' इति हि चैत्यसाधुवन्दनाकरणपदार्थः । न லலலலலலலலலலலலலலலலலலலலலலலலலலலல ४६ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy