SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல चैतदश्रुतपूर्वमिति शङ्कनीयम् । “पुव्वि चेइआइं वंदिता नमंसित्ता तुब्भण्हं पायमूले विहरमाणेणं जे केइ..." इत्यादि पाक्षिकक्षमापनासूत्रतात्पर्यार्थ-चिन्तनात् सर्वमेतत्स्फुटीभवति । अत्र हि गुरुपार्वे समागतः साधुरेतन्निवेदयति, गुरुश्च "अहमवि वंदावेमि चेइआई" इति वदति । ततश्चैतदनुमीयते यदुत गुर्वादेशेन निर्गच्छन्साधुरेतत्कथयेत् यदुत "मार्गे यानि चैत्यानि साधवश्च मीलिष्यन्ति, तेषां सर्वेषां भवन्निमित्तं वन्दनं दास्ये" इति । ___ एतच्च चैत्यसाधुवन्दनाकरणं रत्नाधिकं प्रत्यवमरात्निकस्य कर्त्तव्यमिति बोध्यम् । अत एव यदि पर्यायेण लघुस्ततः शेषाणामपि साधूनां चैत्यसाधुवन्दनां करोति, अथाऽसौ गन्ता साधु रत्नाधिकस्ततस्ते साधवस्तस्य चैत्यसाधुवन्दनां विदधति" इत्यनन्तरमेव वृत्तौ निगदितम् । केचित्त्वस्यान्यथाऽप्यर्थं कल्पन्ते, स चात्रानुपयोगी आभातीति कृत्वा नोपात्त इति बोध्यम्। ർപ്പിക്കുന്ന തായിരിക്കും മറ്റ (२६) स्थण्डिलादस्थण्डिलं च संक्रामता सता साधुना पादौ रजोहरणेन प्रमार्जनीयाविति विधिः । मा भूत् सचित्तपृथिव्या अचित्तपृथिव्या व्यापत्तिः । (ओ.नि. १४) கால்மேல் கால் மேல் மேல் தரம் episosteoaooao ரேodarolerodeos and aரேம் चन्द्र. इदमुपलक्षणं अस्थण्डिलात्स्थण्डिलं संक्रामताऽपि साधुना एष एव विधि: समादरणीयः । यत्त्वत्र रजोहरणेन प्रमार्जनमुक्तम्, न तु दण्डासनेन, तत् दण्डासनस्य संविग्नगीतार्थपरम्पराचीर्णत्वात् ग्रंथकाले च तदभावाद्बोध्यम् । न च संयमप्रधानोपकरणस्य रजो हरणस्य पादस्पर्श ने ऽ पावित्र्यापत्तिरिति मुग्धजनो चितं शङ्कनीयम् । पादप्रमार्जनादिक्रियया पृथिव्यादिरक्षार्थमेव रजोहरणस्योपयोगित्वात्, संयमक्रिययैव च तस्य पावित्र्याक्षतेः, अन्यथा तु जीवविराधनयाऽऽत्माऽपावित्र्ये रजोहरणपावित्र्यं नाममात्रेमेवेति । अत एव ममत्वविषयीभूतस्य रजोहरणस्य संसारकारणत्वमपि नासम्भवि, 'जे आसवा ते परिसवा, जे परिसवा ते आसवा' इति वचनेनोपकरणस्यापि तस्याधिकरणत्वसम्भवस्यानपायत्वादिति । ननु यथा स्थण्डिलादस्थण्डिलं संक्रामता पादौ प्रमार्जनीयौ, तथैवाऽस्थण्डिले प्रतिपदं पादौ प्रमार्जनीयौ न वा ? इति चेत् न, तत्र पादौ अप्रमाज्यैव गन्तव्यम्, यदा तु पुनः ஓஒைஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலைல सिद्धान्त रहस्य बिन्दुः ४७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy