________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல अस्थण्डिलात्स्थण्डिलं संक्रमितव्यं स्यात्, तदा पुनः पादौ प्रमार्जनीयौ । । ननु काऽत्र युक्तिरिति चेत् इयम् । प्रथम स्थण्डिले गच्छतः साधोः पादौ अचित्तरजसा व्याप्तौ भवतः, यदा तु स अस्थण्डिलं सङ्क्रामति, तदा यदि पादौ न प्रमार्जयेत्, तर्हि अचित्तरजः अस्थण्डिलगतसचित्तरजस उपरि निपतेत्, ततश्च सचित्तरजःविराधना स्यात् । तस्मात्तत्र पादौ प्रमाW अचित्तरजः स्थण्डिले एव निपात्य अस्थण्डिले सङ्क्रमणं करणीयम् । अस्थण्डिले तु सर्वत्र सचित्तपृथ्वी अस्ति, ततश्च प्रतिपदं पादप्रमार्जनं न करणीयम्, सचित्ताचितयोमिश्रणाभावात् ।
ननु सर्वमेतन्नियुक्तिकमाभाति । तथाहि - अस्थण्डिले स्थण्डिलगताचित्तरजःपतननिवारणार्थं सङ्क्रमणकाले प्रमार्जनं क्रियते, परन्तु मा भवत् अचित्तरजसा सचित्तरजोव्याघातः, साधुपादयोः सकाशात्तु स दृढतरं भवेदेव । ततश्च प्रमार्जनेन न किञ्चिदपि प्रयोजनं साध्यते, विराधनायाः तदवस्थत्वात्, प्रत्युताधिकभावात् इति चेत्
मैवम, यद्यपि अचितरजःसकाशात्साधुपादौ महच्छस्त्रम्, अधिकविराधनाकारि च । तथाऽपि तौ तत्रास्थण्डिले क्षणमात्रमेव तिष्ठतः, न चिरकालं, ततश्च क्षणमात्रमेव सचित्तरजोविराधना । यदि तु अचित्तरजोऽप्रमार्जनेन तत्राचित्तरजो निपतेत्, तर्हि तत् तत्र चिरकालस्थायि इति कृत्वा चिरकालं सचित्तपृथ्वीविराधना इति परमार्थतः अचित्तरजोजन्यायाः सचितजीवविराधनाया एवाधिक्यात् अवश्यं प्रमार्जनं कर्त्तव्यम् । साधुपादजन्यविराधनायास्त्वनिवार्यत्वात् न तत्र दोषः, जिनाज्ञया यतनया प्रवृत्तत्वात् । लोकेऽप्ययं न्यायो दृश्यत एव, यदुत चिरकालसम्भविनी अल्पापि सततं भाविनी पीडाऽल्पकालभाव्यधिकपीडासकाशादतीवाधिकेति ।
ननु एष एव न्यायः अस्थण्डिले एव प्रतिपदं किमर्थं न लगयितव्यः ? अर्थात् अस्थण्डिले ऽपि प्रतिपदं पादौ प्रमार्जनीयौ, येन पूर्वपदस्थानीयं सचित्तरजोऽग्रपदस्थानीयसचित्तरजउपरि न निपतेदिति चेत् न, यथाऽचित्तरजः सचित्तरजःशस्त्रं भवति, तथा न सचित्तरजः बहुसदृशसचित्तरजः प्रति ।
ननु सचित्तरजसो बहुसदृशस्यापि सचित्तरजसः स्वकायशस्त्रत्वं तु भवेदेवेति चेत् न, बहुसदृशयोः सचित्तरजसोः परस्परं प्रायोऽशस्त्रत्वात् । अत एव स्वकायशस्त्रवर्णने 'नीलमृद् रक्तमृदं प्रति स्वकायशस्त्रम्' इति वर्णादिभेदभिन्नमेव सचितरजः गृह्यते, न तु 'नीलमृद् नीलमृदं प्रति स्वकायशस्त्रम्' इति वर्णादिसदृशतापन्नं सचित्तरज इति दृढमनुसन्धेयम् । லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दः
४८