SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல तस्मादयमत्र भावार्थः, अस्थण्डिले एव गच्छन्साधुः यदि प्रतिपदं पादौ न प्रमार्जयेत्, तर्हि तत्पादविलग्नं सचित्तरजः अग्रिमस्थानीयबहुसदृशसचित्तरजःसम्पृक्तं भवेत्, परन्तु प्रायोऽशस्त्रत्वात् तत्र विराधनाऽभावः, प्रत्युत अग्रिमस्थानीयसचित्तरजः साधुपादाभ्यामनन्तरं स्पृष्टं न भवेत्, पूर्वपदस्थानीयसचित्तरजोऽन्तरितस्पर्शभावात् । तथा च साधुपादजन्याऽपि अग्रिमपदस्थानीय-सचित्तरजोविराधना अल्पैव भवेत् । ___ यदि तु साधुः प्रतिपदं प्रमार्जयेत्, तर्हि परकायशस्त्रात्मकेन रजोहरणेन पादविलग्नसचित्तरजोविराधनायाः साक्षात्साधुपादसंस्पर्शेन अग्रिमपदस्थानीयसचित्तरजोविराधनायाश्च ध्रौव्यात् अधिको दोषः स्यात् । तस्मादायव्ययपर्यालोचनेन तु ज्ञायते यदुत अस्थण्डिले गच्छता साधुना प्रतिपदं पादप्रमार्जनं नैव कर्तव्यम् । ननु यदाऽस्थण्डिलात्स्थण्डिलं संक्रामति साधुः, तदा तेन प्रमार्जनं कर्त्तव्यं न वा ? यदि क्रियेत, तर्हि रजोहरणेन परकायशस्त्ररूपेण सचित्तरजोविराधना स्यात्, तस्मान्न कर्त्तव्यमि चेत् न, यदि न क्रियेत, तर्हि तत्सचित्तरजः, अचित्तरजउपरि निपतेत्, तत्र च चिरकालमवतिष्ठेत्, तच्च अचित्तरजः शस्त्रमेव, रजोहरणेन सचित्तरजःप्रमार्जने तु स्वल्पविराधनासम्भवेऽपि पादलग्नसचित्तरजसः स्वस्थाननिपतनेन तत्र च तस्य चिरं जीवनसम्भवेनाल्पा विराधना स्यादिति तत्रावश्यं सचितरजः रजोहरणेन प्रमाM तस्यैव स्थाने निपातनीया, न तु अचित्तरजउपरि इति । ___ अतिगहनं सूक्ष्मप्रज्ञागम्यमिदं तत्त्वं प्रशान्तमनसा चिन्तनीयम् । अविस्मरणार्थं संक्षेपार्थः पुनर्निगद्यते, (१) स्थण्डिलादस्थण्डिलं सङ्क्रामता साधुना पादौ रजोहरणेन प्रमार्जनीयौ । (२) अस्थण्डिलात्स्थण्डिलं सङ्क्रामता साधुना पादौ रजोहरणेन प्रमार्जनीयौ । (३) स्थण्डिले एव गच्छता साधुना प्रतिपदं न पादौ रजोहरणेन प्रमार्जनीयौ । (४) अस्थण्डिले एव गच्छता साधुना प्रतिपदं न पादौ रजोहरणेन प्रमार्जनीयौ । इदमत्रावधेयं वर्णतः शुक्ला गन्धतः सुरभिगन्धा रसतो मधुरा स्पर्शतश्च मृद्वी पृथ्वी तादृशीं एव पृथ्वी प्रति प्रायोऽशस्त्रभूता । वर्णाद्यन्यतरवैसादृश्ये तु स्वकायशस्त्रत्वं तस्यास्तां प्रति भवत्येव। यथा वर्णादिना समानाऽपि मृद्वी पृथ्वी कठिनपृथ्वी प्रति शस्त्रं भवत्ति... एवमन्यत्रापि विभावनीयम्। तथा च स्वकायशस्त्रत्वं वर्णाद्यन्यतरवैसादृश्ये एव व्यवहर्त्तव्यमिति निष्कर्षः । ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலை सिद्धान्त रहस्य बिन्दुः ४९
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy