SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல Oppopopropriapspcleseoesopropomegopcopropsipsapolp@mpcmgodpone (२७) बालस्त्वत्र अष्टवर्षादारभ्य यावत्पञ्चविंशतिक इति । असावपि बाल इव बालः, अपरिणतत्वेन रागान्धत्वात् । (ओ.नि. १८) pootoschooloodkyidiositors or toolkondayn toddosto kooootoshooto koolios kocipes चन्द्र. मार्गपृच्छा कस्य कर्त्तव्या, कस्य वा न कर्त्तव्या इति विमर्श बालस्य मार्गपृच्छा निषिद्धा, तत्र च बालः पञ्चविंशतिकपर्यन्तो गृहीतः, ततश्च भवत्येवेयमाशङ्का यदुत सम्प्राप्तयौवनोऽप्ययं कथं 'बाल' इति व्यपदिश्यते इति । तदुत्तरदानाय "असावपि...." इत्याद्युक्तम् । ___ इत्थं च न सर्वत्र शब्दस्यैक एवार्थो भवति, किन्तु पूर्वापरविचारणाधीनानेकार्थकः स भवति । अत एव सूत्रसम्बद्धशब्दार्थमात्रग्राहित्वमुन्मार्गवाहकं, परमार्थावबोधा-सम्भवात्, विपरीतबोधेनानर्थशतसम्पातसम्भवाच्च । तस्मात् न सूत्रार्थमात्रपरायणैः स्थेयम्, अपि तु नियुक्तिभाष्यचूणिवृत्त्यनुगतार्थानुसारिभिर्भाव्यम् । न च नियुक्त्यादिकर्तृणां छद्मस्थत्वान्न तद्वचनं श्रद्धेयमिति शक्यम्, भवदीयैतद्वचनस्यैव छद्मस्थवचनत्वेनानुपादेयत्वप्रसङ्गात्, भवतां छद्मस्थत्वस्य भवताऽपि स्वीकृतत्वात् । ___ ननु छद्मस्थोऽप्यहं पदार्थं सम्यग्ज्ञात्वैव सोपयोगं वक्ष्ये, इति न मद्वचनमनुपादेयमिति चेत्, तर्हि किं ते नियुक्त्यादिकर्तारः पदार्थं सम्यगज्ञात्वैव यथा तथा वदन्ति ? येन तद्वचनमश्रद्धेयं स्यात् । तस्मात् न छद्मस्थत्वादिना वचनस्य अनुपादेयत्वं शक्यम्, किन्तु सोपयोगं संविग्नगीतार्थोक्तत्वेन वचनस्योपादेयता ग्राह्या । सा च नियुक्त्यादिवचनेऽक्षतैव । किं बहुना ? नियुक्त्याद्यपलापिनां सूत्रार्थमात्रनिबद्धकदाग्रहाणां निह्नवसदृशत्वमनपायम्, ततश्च अनन्तसंसारित्वमपि न दुर्लभमिति अधिकमग्रे वक्ष्यते । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ५० सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy