Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 24
________________ ७०७०७७०७७०७०७०७०७७०७७७ ஸ்ஸ்ஸ்ஸ்ஸ் तथाविधपापकर्माभावे त्वपशकुनं न किमपि निवेदयति, ततश्च 'अपशकुनं अमङ्गलं, तेन च भावमङ्गलमुपहन्यत' इति वचनं निर्युक्तिकमेवेति । ननु यदि तत्र भावमङ्गलं नोपहतं, तर्हि प्रत्यावर्तनं किमर्थमिति चेत् प्रबलेन भावामङ्गलेनोपहतत्वादिति जानीहि । ननु किं तत्र भावामङ्गलमिति चेत् उदयमागच्छत्प्रबलं तथाविधं पापकर्मैवेति । ननु पापकर्म तु द्रव्यभूतत्वाद् द्रव्यामङ्गलं, न तु भावामङ्गलमिति चेत् सत्यम्, तथाऽपि भावामङ्गलजन्यत्वात् कार्ये कारणोपचारात्तस्य भावामङ्गलत्वमपि अविरुद्धमिति । अयं भावः, तत्पापकर्म जीवेन प्राक्काले येनाशुभाध्यवसायेन निबद्धं, स एवाशुभाध्यवसायो भावामङ्गलं तच्च भावामङ्गलं प्रस्तुतभावमङ्गलात्प्रबलमिति भवति तेन प्रस्तुतभावमङ्गलोपघात इति । अपशकुनस्य मङ्गलत्वं तु दुर्निमित्तोपनिपातस्तु तज्ज्ञापकोऽदृष्ट-वशादेवोपतिष्ठते पुण्यवत एवानिष्टज्ञानेनानिष्टप्रवृत्तिप्रतिरोधसम्भवादिति सामाचारीप्रकरणपाठादेव सिद्धमिति । ॐ ஸ்ஸ்ஸ் se me in the conte (५) समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति । (ओ.नि. १-२ ) cododcodeoscootosbooooooooooooooootosbos Body Bodo Bos Postobodeos चन्द्र. ये द्वे क्रिये पूर्वापरकालभाविन्यौ, ययोश्च क्रिययोः कर्ता एक एव, तयोः क्रिययोः मध्ये पूर्वकालीनक्रियायां क्त्वा प्रत्ययो भवति । तथ 'चैत्रः गृहं गत्वा भुनक्ति' इत्यत्र गमनं भोजनं च इति द्वे क्रिये भवतः । तत्र गमनक्रिया पूर्वकालभाविनी, भोजनक्रियाऽपरकालभाविनी, द्वयोश्च कर्ता चैत्र एक एव, अतोऽत्र पूर्वकालभाविन्यां गमनक्रियायां क्त्वाप्रत्ययो भवतीति । २०७०९७०७९२ सिद्धान्त रहस्य बिन्दुः अनेन त्वाप्रत्ययनियमेनैकान्तनित्यवादस्यैकान्तानित्यवादस्य च निरासः कृतो भवति तथाहि येषां मते आत्मा एकान्तेन नित्य:, तेषां मते आत्मा सदैव एकस्वरुप एव भवति, न तु पूर्वकालेऽन्यादृशोऽपरकाले चान्यादृशः, ततश्च यदि चैत्रात्मा पूर्वकाले गमनक्रियापरिणतः, ततः स अपरकालेऽपि गमनक्रियापरिणत एव भवति, न तु व्यपगतगमनक्रियापरिणामः अङ्गीकृतभोजनक्रियापरिणामश्च, एकान्तनित्यत्वविरोधात् । तस्मात् तेषां मते आत्मनि पूर्वापरकालभाविभिन्नक्रियाकर्तृत्वमसङ्गतमिति क्त्वाप्रत्ययोऽपि दुर्घट एवेति । २१ 9

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206