Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 28
________________ 999999999999999 ये गच्छकार्यकरणाभ्युपगमं शीघ्रं तस्य कार्यस्य निष्पादनं, क्षेत्रप्रत्युपेक्षणां उपध्युत्पादनं च अविषादं कुर्वन्ति, सूत्रार्थतदुभयविदश्च भवन्ति, ते एतादृशा गणावच्छेदका भवन्ति । एते च पञ्चापि गीतार्थाः संविग्नाः गच्छाधारभूताश्च भवन्ति । परन्त्वयमुत्सगमार्गः । यदा तु गच्छे कारणवशादुपाध्याया न भवन्ति, तदा आचार्य एव सूत्रमर्थं च ददाति । यदि वा आचार्याभावे उपाध्याय एव सूत्रमर्थं च ददाति । आचार्यादिपञ्चकस्वरूपं च व्यवहारसूत्रप्रथमोद्देशकत्रयस्त्रिंशत्तमसूत्रगतनिर्युक्तिप्रभृतिकमनुसृत्य अस्माभिः कृतमिति बोध्यम् । यद्यपि यत्र नगरे नृपस्य मन्त्रिणः सेनानायकस्य पुरोहितस्य वाऽन्यतरस्याऽप्यभावः, तत्र लोकानां वस्तुं न योग्यम्, तत्तदापत्तिवशतः प्रभूतहानिसम्भवात् । एवं यत्र गच्छे प्रकृतानां पञ्चानां मध्येऽन्यतरस्याप्यभावः, तत्र सुविहितानां मोक्षार्थिनां वस्तुं न युक्तम्, इहलोकपरलोकापायसम्भवात् । तथाऽपि कालादिवैषम्यात् अपवादतस्तत्रापि वस्तव्यमेव, परं तत्र पञ्चानां मध्यादन्यतमस्यापि संविग्नगीतार्थस्य विद्यमानता यदि भवेत्, तर्हि अतीव शोभनमिति न विस्मर्तव्यम् । सर्वथा संविग्नगीतार्थविरहिते गच्छे तु मोक्षमार्गाराधनं प्रायोऽसम्भव्येव, प्रत्युत तद्विराधनासम्भवादनन्तसंसारोऽपि नासुलभः । तदुक्तमुपदेशमालायां जं जयई अगीत्थो, जं च अगीयत्थनिस्सिओ जयइ । वट्टावेइ य गच्छं अनंतसंसारिओ होइ । इति । साम्प्रतकाले संविग्नगीतार्थाज्ञया येषामगीतार्थानां स्वतन्त्रविहारो दृश्यते, तेषां तत्स्पर्धकपतेश्च न उक्तश्लोकगतदोषा मन्तव्याः । ॐट മഹാ (९) नवि किंचि वि पडिसिद्धं नाणुन्नायं च जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं । (ओ.नि. भा. २ ) ०००००००००००ooooooooooooooooo चन्द्र. उत्सर्गमार्गप्रतिपादनपरायणेषु हि ग्रन्थेषु उत्सर्गतो हिंसामृषाचौर्यादिकं प्रतिषिद्धं, तपोवैयावृत्यस्वाध्यायादिकं चानुज्ञातम् । किन्तु अपवादप्रतिपादकेषु तु ग्रन्थेषु उत्सर्गतः २०५८ ०७०७०७०१ २५ २०७ सिद्धान्त रहस्य बिन्दुः ഉണ

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206