________________
999999999999999
ये गच्छकार्यकरणाभ्युपगमं शीघ्रं तस्य कार्यस्य निष्पादनं, क्षेत्रप्रत्युपेक्षणां उपध्युत्पादनं च अविषादं कुर्वन्ति, सूत्रार्थतदुभयविदश्च भवन्ति, ते एतादृशा गणावच्छेदका भवन्ति । एते च पञ्चापि गीतार्थाः संविग्नाः गच्छाधारभूताश्च भवन्ति ।
परन्त्वयमुत्सगमार्गः । यदा तु गच्छे कारणवशादुपाध्याया न भवन्ति, तदा आचार्य एव सूत्रमर्थं च ददाति । यदि वा आचार्याभावे उपाध्याय एव सूत्रमर्थं च ददाति । आचार्यादिपञ्चकस्वरूपं च व्यवहारसूत्रप्रथमोद्देशकत्रयस्त्रिंशत्तमसूत्रगतनिर्युक्तिप्रभृतिकमनुसृत्य अस्माभिः कृतमिति बोध्यम् ।
यद्यपि यत्र नगरे नृपस्य मन्त्रिणः सेनानायकस्य पुरोहितस्य वाऽन्यतरस्याऽप्यभावः, तत्र लोकानां वस्तुं न योग्यम्, तत्तदापत्तिवशतः प्रभूतहानिसम्भवात् । एवं यत्र गच्छे प्रकृतानां पञ्चानां मध्येऽन्यतरस्याप्यभावः, तत्र सुविहितानां मोक्षार्थिनां वस्तुं न युक्तम्, इहलोकपरलोकापायसम्भवात् । तथाऽपि कालादिवैषम्यात् अपवादतस्तत्रापि वस्तव्यमेव, परं तत्र पञ्चानां मध्यादन्यतमस्यापि संविग्नगीतार्थस्य विद्यमानता यदि भवेत्, तर्हि अतीव शोभनमिति न विस्मर्तव्यम् । सर्वथा संविग्नगीतार्थविरहिते गच्छे तु मोक्षमार्गाराधनं प्रायोऽसम्भव्येव, प्रत्युत तद्विराधनासम्भवादनन्तसंसारोऽपि नासुलभः ।
तदुक्तमुपदेशमालायां
जं जयई अगीत्थो, जं च अगीयत्थनिस्सिओ जयइ । वट्टावेइ य गच्छं अनंतसंसारिओ होइ । इति ।
साम्प्रतकाले संविग्नगीतार्थाज्ञया येषामगीतार्थानां स्वतन्त्रविहारो दृश्यते, तेषां तत्स्पर्धकपतेश्च न उक्तश्लोकगतदोषा मन्तव्याः ।
ॐट
മഹാ
(९) नवि किंचि वि पडिसिद्धं नाणुन्नायं च जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं । (ओ.नि. भा. २ )
०००००००००००ooooooooooooooooo
चन्द्र. उत्सर्गमार्गप्रतिपादनपरायणेषु हि ग्रन्थेषु उत्सर्गतो हिंसामृषाचौर्यादिकं प्रतिषिद्धं, तपोवैयावृत्यस्वाध्यायादिकं चानुज्ञातम् । किन्तु अपवादप्रतिपादकेषु तु ग्रन्थेषु उत्सर्गतः
२०५८
०७०७०७०१ २५
२०७
सिद्धान्त रहस्य बिन्दुः
ഉണ