SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல (३) अर्थमात्रदाने तीर्थकरानुसरणं स्यात्, यतस्ते तीर्थकराः केवलमर्थं भाषन्ते, गणतप्ति च न कुर्वन्ति, एवमाचार्या अपि तथैव कुर्वाणाः तीर्थकरानुकारिणो भवन्ति । ___ (४) यस्यां सूत्रवाचनायां अधस्तनपदवर्तिनोऽपि उपाध्यायादयोऽधिकारिणः, तस्या आचार्येण दाने क्रियमाणे तु आचार्यस्य लाघवं स्यात्, इत्थं च अधस्तनपदवर्त्यधिकृतकार्याकरणे तेषां लोके राज्ञ इव महती गुरुता स्यात्, तथा च प्रवचनप्रभावना ।। (५) जिनाज्ञायां स्थैर्यं कृतं भवति, यतो हीयं तीर्थकृतामाज्ञा यदुत "आचार्येण अनन्तरोक्तप्रकारेण मदनुकारिणा भवितव्यम्" इति । तत एतत्कारणकलापादाचार्याः सूत्रं न ददति । किञ्च तैरपि मुनिपदाद्यवस्थायामनेके साधवः सूत्रमध्यापिता एवेति तैः ऋणमोक्षः कृत एवेत्यधुना सूत्रादानेऽपि न काचित्क्षतिस्तेषामिति । ये सूत्रार्थतदुभयविदः रत्नत्रय्यां उपयुक्ताः शिष्यनिष्पादकाश्च, ते तादृशा उपाध्याया भवन्ति । ते हि सूत्रं ददति । ननु तेषां सूत्रदाने को लाभ इति चेत् उपाध्यायाः शिष्येभ्यः सूत्रवाचनां प्रच्छन्तः स्वयमर्थमपि परिभावयन्ति, ततश्च सूत्रेऽर्थे च तेषां स्थिरत्वमुपजायते । तथाऽन्यस्य सूत्रवाचनादाने सूत्रप्राप्तिलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आचार्यपदप्राप्तौ न किमपि विघ्नं भवति, सूत्रार्थोभयानामात्मसाद्भूतत्वात् (आयत्यां आचार्यपदप्राप्तौ सत्यां सूत्रादानेऽपि सूत्रपाठे न किमपि विघ्नं स्यात् स्वनामवत्तस्यात्मसाद्भूतत्वादित्याशयः) । तथा दृढाभ्यासात् सूत्रस्य पुनरावर्तनं आयत्यां सुकरं स्यादिति । तथा अन्यगच्छीयाः साधवः सूत्रग्रहणार्थं गच्छान्तरादत्रागत्योपाध्यायं निश्रयन्ति, ततश्च तेषां सूत्रदानेनोपाध्याया अनुग्राहका भवन्ति । तथा सूत्रवाचनादानमग्नस्योपाध्यायस्य प्रायश्चित्तापादकस्य तथाविधकषायोदयस्याभावात् मोहजयः कृतो भवति । इत्थं च प्रभूतलाभसम्भवात् सूत्रं वाचयेदुपाध्यायः । ये तपोनियमविनयगुणनिधयः, साधूनां ज्ञानदर्शनचारित्रेषु प्रवर्तकाः, शिष्याणां संग्रहे संगृहीतानां चोपकारकरणे कुशलाः, ते एतादृशाः प्रवर्तका भवन्ति । तेषां च कार्यमिदं यदुत गच्छे यः साधुः यस्मिन् संयमे तपसि अन्यस्मिन्वा योगे योग्यो भवति, तं तत्र ते प्रवर्तयन्ति यश्च यस्मिन्नसमर्थः, तं तस्मात्ते निवर्तयन्ति । ये संविग्नाः मार्दविकाः प्रियधर्माः रत्नत्रय्यां परिहानि कुर्वन्तं तं तं साधुं स्मारयन्तो भवन्ति, ते तादृशाः स्थविरा भवन्ति । ते हि प्रवर्तकव्यापारितेषु ज्ञानसंयमवैयावृत्यादिष्वर्थेषु मध्ये यः साधुः समर्थोऽपि यत्र सीदति, तं तत्र प्रणोदनात् स्थिरीकुर्वन्तीति । லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः २४
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy