SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல प्रतिषिद्धमपि सर्वं अपवादतोऽनुज्ञातम् । उत्सर्गतोऽनुज्ञातमपि सर्वं अपवादतः प्रतिषिद्धं । ततश्च जिनवरेन्द्रैः किञ्चिदपि अनुष्ठानं एकान्ततो न प्रतिषिद्धं, किञ्चिदपि च अनुष्ठानं एकान्ततो नानुज्ञातमिति सिद्धं । परन्तु प्रतिषिद्धेषु मध्ये मैथुनं तु एकान्तत एव प्रतिषिद्धं । यतस्तद् रागद्वेषाभ्यां विना न भवतीति । तदयमत्र परमार्थः जिनशासने अप्रशस्तौ रागद्वेषौ एकान्ततः प्रतिषिद्धौ, न काऽपि बाह्यक्रिया एकान्ततः प्रतिषिद्धाऽनुज्ञाता वा । अत एव यस्यां बाह्यक्रियायां अप्रशस्तौ रागद्वेषौ न भवतः, साऽशुभाऽपि न प्रतिषिद्धा, यस्यां च बाह्यक्रियायां अप्रशस्तौ रागद्वेषौ भवतः, सा शुभाऽपि नानुज्ञातेति । ततश्च निश्चयनयतो बाह्यक्रियारूपं मैथुनमपि साक्षान्न प्रतिषिद्धं, परन्तु यतस्तत्र अप्रशस्तरागोऽवश्यंभावी, स च सर्वथा प्रतिषिद्धः, ततः सर्वथाप्रतिषिद्धरागाविनाभावित्वादेव मैथुनं सर्वथा प्रतिषिद्धं भवति । अत एव चाप्रशस्तरागद्वेषविनाभाविनी स्वरूपतो दुष्टाऽपि प्रणीतरसादिभक्षणादिका बाह्यक्रिया कारणापाते द्वितीयपदेनाऽऽचर्यतेऽपि । __ अत्र सर्वथा प्रतिषिद्धत्वं रागस्य द्वेषस्य चाप्रशस्तस्य बोध्यम्, न तु प्रशस्तस्यापि, तस्य कथंचिदनुमतत्वात् । नन्वेवं मैथुनं विना सर्वत्रापवादोऽस्तीति सिद्धं । तच्च न युक्तं महानिशीथग्रन्थविरोधात् । तथाहि → गोयमा ! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पन्नविज्जइ, णो णं एगंतं । णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च, एते तओ ठाणंतरे एगंतेणं णिच्छयओ उ बाढं उ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धमिति । - इति महानिशीथसूत्रे सावधाचार्याधिकारे भगवन्महावीरवदनकमलनिर्गतं वचनम् । तदर्थश्चायं → हे गौतम ! जिनप्रवचनं उत्सर्गापवादाभ्यामेव स्थितम्, अनेकान्तश्चात्र प्रज्ञाप्यते, नैकान्तः, नवरं अप्कायपरिभोगः तेजःकायसमारम्भो मैथुनासेवनं चेति त्रीणि स्थानान्तराणि एकान्तेन निश्चयतो बाढं सर्वथा सर्वप्रकारैः आत्महितार्थिनां निषिद्धानीति - ___ अत्र हि न केवलं मैथुनसेवने, अपि तु अप्कायपरिभोगे तेजःकायसमारम्भेऽपि च अपवादः प्रतिषिद्धः, ततश्च मैथुनं विना सर्वत्रापवादोऽस्तीति यत्प्रसिद्धं, तन्महानिशीथवचनविरोधि इति चेत् सत्यं, अत्र समाधानं गवेषणीयम्, येन विरोधपरिहारः स्यात् । न च किं லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy