SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல उस्सग्गा । इत्यादिनाऽऽचाराङ्गसूत्रे सामान्यतस्तदपवाददर्शनात् । विशेषतोऽपवादाक्षराणि तु अन्येष्वपि बहुषु आचारेषु न दृश्यन्त एवेति न तावन्मात्रेणात्रापवादाभावनिगदनं शोभनम् । किञ्च वज्र स्वामिनो वर्षषटकजन्मपर्याये दीक्षाऽभवत्, ततश्च तस्य विंशतिवर्षदीक्षापर्यायस्य दृष्टिवादाध्ययने सति षड्वंशतिवर्षजन्मपर्या ये जिनकल्पादिग्रहणयोग्यताऽभवत् । यद्यपि तेन दशपूर्वधरत्वान्न जिनकल्पादिकं गृहीतम्, तथापि तत्सदृशस्यान्यस्य कस्यचित् सप्तविंशतिवर्षजन्मपर्याये जिनकल्पादिग्रहणं सुवचमेवेति युक्त्याऽपि जिनकल्पे निगदितस्य वर्षसंख्यानियमस्यापवादो न दुर्घटः, एवं दृष्टिवाददानेऽपि यथासम्भवमुह्यमिति । - __ अत्रास्माकमिदमाभाति → तर्कानुसारेण तावत्तार्किकोक्तरीत्याऽपवादसम्भवो न दुर्घटः, विशेषतः शास्त्रे तदपवादाक्षरानुपलम्भस्तु तादृशापवादस्याश्चर्यवत्कथञ्चिदेव जायमानत्वात् “अल्पस्य विवक्षा नास्ति' इत्यादिन्यायेन सुबोध एव । न तावन्मात्रेणात्रापवादाभावकथनं युक्तिभृतं स्याद्वादपरिकर्मितप्रज्ञानामिति । तत्त्वमत्रत्यं बहुश्रुता विदन्ति इत्यलं विस्तरेणेति । മുളപ്പിറപ്പായിട്ടുണ്ടായിട്ടുമില (३) श्रेयांसि बहुविघ्नानि भवन्ति - इत्यादि । (ओ.नि. १-२) தரும் மேன் போன் கால் மேல் pேs eps to மேல் கால் மேல் மேல் காக்கும் பரப்பிரேேரம் ரே ரோம் चन्द्रः सम्यक्त्वदेशविरतिसर्वविरत्यादिग्रहणशास्त्राध्ययनादिषु कल्याणकारिषु कार्येषु कुसंगविकथाशरीरमान्द्यस्वजनादिरागमोहनीयज्ञानावरणादिकर्मादीनि बहूनि विघ्नानि भवन्ति, इहलोकमात्रहितकारिषु तु अत एवाश्रेयोभूतेषु तीव्रारम्भादिषु विघ्नानि स्वयमेव दूरं नश्यन्तीति संक्षेपार्थः ।। ननु काऽत्र युक्तिः ? किं विघ्नानि सचेतनानि सन्ति, येन तानि “इदं कार्यं श्रेयः, तस्मादत्र अस्माभिः प्रभूतैः भवितव्यमिति विचिन्त्य तत्र बहूनि भवन्ति, "इदं च कार्यमश्रेयः, तस्मादत्र नास्माभिर्भवितव्यम्, दूरं गन्तव्यमस्मात्कार्यादिति विचिन्त्य तानि नश्यन्तीति चेत् इयमत्र युक्तिः, धर्मः धर्मसाधकौ च अर्थकामौ साक्षात्परम्परया वा मोक्षानुकूलौ इति तादृशा धर्मार्थकामा श्रेयोभूतानि कार्याणि । तत्र तादृशौ अर्थकामौ धर्मसाधकत्वादुपचारतो धर्म एव । லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १८
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy