________________
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
७०७०७०७०७०७०७०७०७
ननु 'विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते', इत्येष नियमः किं मन्दप्रज्ञानाश्रित्य, मध्यमप्रज्ञानाश्रित्य पटुप्रज्ञानाश्रित्य वेति चेत्
सर्वानेवाश्रित्येति सम्भावयामः । कथमेतत्सम्भाव्यते इति चेत् पूर्वापरग्रन्थसंदर्भपर्यालोचनेनेति ।
कः पूर्वग्रन्थसन्दर्भः को वाऽपरग्रन्थसन्दर्भ इति न जानीमो वयं सम्यगिति चेत् शृणु, जघन्यतोऽपि एकोनत्रिंशद्वर्षजन्मपर्यायस्यैव साधोः परिहारविशुद्धिककल्पजिनकल्पादिग्रहणं शास्त्रेऽनुमतम्, नार्वाक् । एतच्च विंशति वर्षप्रव्रज्यापर्यायस्यैव साधोर्दृष्टिवाददाने घटते, नान्यथा । तथाहि जघन्यतोऽपि अष्टवार्षिकस्यैव दीक्षाग्रहणमनुज्ञातम्, न सप्तादिवार्षिकस्य । ततश्च अष्टवार्षिकस्य दीक्षाग्रहणानन्तरं विंशतिवर्षप्रव्रज्यापर्याये सति दृष्टिवादस्याध्ययनम् । इत्थं चैकोनत्रिंशद्वर्षजन्मपर्यायस्य तस्य जिनकल्पादिग्रहणं सम्भवेत् । दृष्टिवादान्तर्गतानां चतुर्दशपूर्वाणां मध्याद् यावत् जघन्यतोऽपि नवमपूर्वतृतीयवस्तुपर्यन्ताध्ययनं न भवेत्, तावज्जिनकल्पादिग्रहणं न सम्भवत्येवेति जिनकल्पादिग्रहणे तदध्ययनं तु आवश्यकमेवेति तदध्ययनात्पूर्वं तु जिनकल्पादिग्रहणमसम्भव्येवेति ।
यदि च पटुप्रज्ञानाश्रित्य पञ्चदशादिवर्षपर्यायेऽपि दृष्टिवादो दीयेत, तर्हि अष्टवार्षिकस्य दीक्षाऽनन्तरं पञ्चदशादिवर्षे दृष्टिवादाध्ययनसम्भवात् त्रयोविंशत्यादिवर्षजन्मपर्यायस्यापि जिनकल्पादिग्रहणं वक्तव्यं स्यात् । तच्च नोक्तम्, जघन्यतोऽपि एकोनत्रिंशद्वर्षपर्यायस्यैव तदनुज्ञानात् । ततश्च निश्चितमेतद् यदुत पटुप्रज्ञानामपि विंशतिवर्षदीक्षापर्याये सत्येव दृष्टिवादो दीयते, नारत इति ।
अत्राह कश्चित्तार्किकः → उत्सर्गमार्गस्तावदेष एव यदुत विंशतिवर्षपर्यायस्यैव दृष्टिवादो दीयते, नारतः, अष्टवार्षिकस्यैव दीक्षा दीयते, नारतः, एकोनत्रिंशद्वर्षजन्मपर्यायस्यैव जिनकल्पादि दीयते, नारतः इत्यादि । परन्तु यथा वज्रस्वामिनो षड्वर्षजन्मपर्यायस्यापि दीक्षादानं अपवादतः शास्त्रसिद्धं, तथा दृष्टिवाददाने जिनकल्पादिदाने च कथमपवादो न सम्भवेत् ? 'किञ्च मैथुनं विना सर्वत्राचारेऽपवाद उक्तः, ततश्च दृष्टिवाददाने जिनकल्पादिदाने च प्रसिद्धस्य वर्षसंख्यानियमस्यापि कश्चिदपवादोऽवश्यं मन्तव्य एव । न च सूत्रे तदपवादादर्शनात् न तं मन्यामहे इति वाच्यम् । जावइया उस्सग्गा तावइया चेव अववाया, जावइया अववाया तावइया चेव
१०७०
सिद्धान्त रहस्य बिन्दुः
-
७०७
१७