________________
१८७
७०७०X
१८७०७०७
महावीरपदेन स एव वाच्यते, नान्ये तीर्थंकराः । एवमत्रापि बोध्यमिति ।
इदन्तु बोध्यं चतुष्पदात्मकचूलाविरहितः पञ्चपदनमस्कारः न पञ्चमङ्गलमहाश्रुतस्कन्धः, किन्तु सर्वश्रुतस्कन्धाभ्यन्तरभूतः सः, नवपदात्मकश्च नमस्कारः चूलायुक्तत्वात् स्वतन्त्रः श्रुतस्कन्धः इति । तदुक्तं प्रतिमाशतके तृतीयकाव्यवृत्तौ → पञ्चपदनमस्कारश्च सर्वश्रुतस्कन्धाभ्यन्तरभूतः, नवपदश्च समूलत्वात् पृथक् श्रुतस्कन्ध इति प्रसिद्धमाम्नाये ← इति । समूलत्वात् = सचूलत्वात् पृथक् = स्वतन्त्र इति । शेषं स्पष्टम् ।
3.t
१६
all live digital religion googl se ta de (२) विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते, नारतः, इयं तु प्रथमदिवस एव दीयते । (ओ.नि. १-२ )
69696969
pooooooooooooooooooooooooooooo
चन्द्रः अयं भाव:, साधोः प्रतिदिनकर्त्तव्यरुपा ओघसामाचारी नवमपूर्वे वर्तते, तच्च दृष्टिवादे वर्तते । स च यस्य साधोः प्रव्रज्यापर्यायो विंशतिवर्षो भवति, तस्य दीयते, तत्पूर्वं तु नेति अभिनवप्रव्रजितानां ओघसामाचारी श्रुतरुपेण दुष्प्रापैव । केवलं आसेवनशिक्षारुपेण सा गुरोः सकाशात्प्राप्यते । ततश्चाभिनवप्रव्रजितानामपि सा श्रुतरुपेण सुप्रापा भवेदित्येतदर्थं भद्रबाहुस्वामिना नवमपूर्वात्सा उद्धृता । उद्धृता तु साऽभिनवप्रव्रजितानां प्रव्रज्याप्रथमदिवसे एव दातुं शक्यते, न तत्र विंशतिवर्षपर्यायापेक्षेति विंशतिवर्षपर्यायप्राप्या ओघसामाचारी ओघनिर्युक्तिरुपेण प्रव्रज्याप्रथमदिवसप्राप्या कृता भद्रबाहुस्वामिनेति एतदेव उपक्रमणम्, कालतः समीपमानयनमिति भावः ।
स्यादेतत् दृष्टिवादाध्ययनं साध्वीनां तावत्सर्वथा निषिद्धमेव, तत्किं तस्मादुद्धृताया ओघनिर्युक्तेरध्ययनं साध्वीनामनुमतं न वा इति ।
अत्रानुमतमिति वयं ब्रूमः, अत एव सर्वेषु गच्छेषु साध्वीनां ओघनिर्युक्त्यध्ययनं यथायोग्यं अनुमन्यमानं दृश्यत एव । ततश्च यच्छास्त्रं साध्वीनां अध्ययनाय निषिद्धं, तस्मादुद्धृतं तु शास्त्रं मूलशास्त्रात्पृथग्भूतं कथंचिदध्ययनायानुमतमपि भवेदिति सिद्धमिति । इत्थं च प्रकृतमपि सिद्धान्तरहस्यबिन्दुशास्त्रं साध्वीनां यथायोग्यमध्ययनायानुमतम् । केवलं पात्रता दृढं परीक्षणीयेत्येतावानेवोपदेशः ।
७०७०७७X
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ல
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः