SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ാപ്പം മറ്റും പറ്റ (१) णमो अरहंताणं णमो सिद्धाणं । णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं एसो पंच णमुक्कारो, सव्वपावप्पणासणो मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् । மேரேகேரகரப்ரேம் பேரம் மேம்பரம் தோப்பில் மேல் இருக்கிறம் चन्द्र. इदं च मङ्गलं नियुक्तिकृद्भद्रबाहुस्वामिभिर्ग्रन्थारम्भे संदृब्धं प्रारीप्सितग्रन्थविघ्नविनाशाय, शिष्टाचारपरिपालनाय, 'श्रेयःकार्यारम्भेऽवश्यं मङ्गलं कर्त्तव्यमिति शिष्यबोधाय च । ननु अस्माभिस्तु 'अरिहंताणमित्येव पाठो दृष्टः श्रुतश्च, अत्र तु 'अरहंताणमिति पाठो दृश्यते, तत्कथं न विरोध इति चेत् । पञ्चमङ्गलमहाश्रुतस्कन्धस्य शाश्वतत्वात् शाश्वते च पाठभेदासम्भवात् तत्र एक एव पाठः, स च 'अरिहंताणमित्येवंरुप एव । अयन्तु न पञ्चमङ्गलमहाश्रुतस्कन्धः, किन्तु तत्सदृशः अन्य एव पाठ इति अरहंताणं इति पाठेऽपि न विरोधः । ननु 'अरहंताणं अरिहन्ताणं वा' इत्यस्य पदस्य कोऽर्थः ? अरिहन्तृभ्य इति चेत् तर्हि सिद्धानां सामान्यकेवलिनामपि च अरिहन्तृत्वात् तेषामपि अनेनैव वाक्येन नमस्कारापत्तिः, ततश्च 'नमो सिद्धाणमिति वाक्यमधिक मे वेति । यदि च अरुहद्भ्यः भवबीजदाहात्पुनर्जन्मरहितेभ्य इति यावदिति अर्थः, तदापि सिद्धानामपि अरुहत्त्वात् सैवापत्तिः । तस्मात् अर्हद्भ्यः अष्टप्रातिहार्यरुपदेवपूजायोग्येभ्यः इत्येवार्थो न्याय्यः, नेतरौ द्वौ इति चेत् । __न, अर्थद्वयस्य व्युत्पत्त्यर्थानुसारेण सिद्धेऽतिव्याप्तावपि 'योगाद रूढेर्बलीयस्त्वम्' इति न्यायात् तीर्थकृतामेव अरिहन्तृ-अरुहद्-अर्हच्छब्दवाच्यत्वम्, न सिद्धानामिति न कश्चिद् दोषः । अयं भावः, महाँश्चासौ वीरश्चेति महावीर इत्येवं महावीरपदव्युत्पत्तिः, तदनुसारेण तु सर्वे एव तीर्थकरा महावीरा एव, परन्तु रूढ्यनुसारेण तु चरमतीर्थंकर एव महावीर इति ஓலைஓஓலைலைலைலைலைலைலைல सिद्धान्त रहस्य बिन्दुः १५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy