________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல महोदधिकल्पं श्रुतं दुरवगाहं सञ्जातम् । ततश्च सम्यग्जिनागमबोधाभावात् का वार्ता परिणतिप्रधानचारित्रपालनस्य ? ज्ञानाधीनत्वात्तस्य, तदुक्तं 'पढमं नाणं तओ दया' (दशवैकालिकसूत्र) इति । चारित्राभावे चास्तां परमपदप्राप्तिः, सद्गतिरपि दुष्प्रापैवेति भवेद् दुर्लभमपि मानुषं जन्म निरर्थकमेवेति ।
एतच्च सर्वं मनसि विचिन्त्य 'आगमरहस्यावबोधः संक्षेपतोऽपि सम्यक सर्वेषां भवत्वित्येतदर्थं कश्चिन्महान्यत्न आवश्यक' इति दृढं निश्चितमस्माभिः । तदर्थमेवायमारम्भः सिद्धान्तरहस्यबिन्दुग्रन्थस्य । अत्र हि क्रमशः पञ्चचत्वारिंशता-मप्यागमानां अतीवोपयोगीनि वाक्यानि पृथक्कृत्य तदुपरि किञ्चिद् विवेचनं करिष्यतेऽस्माभिः । ___ यद्यप्यागमवाक्यान्यतीवगभीराणि, स्थूलप्रज्ञः स्थूलबोधश्चाहम्, तथापि 'शुभे यथाशक्ति यतनीयम्' इति । न्यायत इदं धायमवलम्बितमिति क्षमन्तु मां सज्जनाः । यादृशो मम शास्त्रबोधः, यादृशं च सम्प्रदायपरिज्ञानम्, यादृशश्च स्वानुभवः, तदनुसारेण विवरणं कर्तुं प्रयतिष्येऽहम् । एतत्रितयानुसारेणैव प्राचीनमहात्मभिर्ग्रन्थरचना समादृतेति अस्माभिरपि स एव मार्गः अनुसृतः,
तदुक्तं योगशास्त्रे "श्रुताम्भोधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि योगशास्त्रं विरच्यते" इति हेमचन्द्रसूरिभिः ।
तथा अध्यात्मसारे "शास्त्रात्परिचितां सम्यक् सम्प्रदायाच्च धीमताम् । इहानुभवयोगाच्च प्रक्रियां कामपि ब्रूवे" इति यशोविजयोपाध्यायैः ।।
ननु शोभनं कार्यमारभ्यते भवद्भिः, भविष्यत्यस्माद् ग्रन्थात्प्रभूतोपकारः श्रीश्रमणसंघस्य, विशेषतश्च सकलागमपठनासहिष्णुषु, सकलागमपठनाधिकाररहितेषु च श्रमणेषु तादृशीषु च श्रमणीषु । किन्तु प्रथमं कमागमं पुरस्कृत्यायं ग्रन्थ आरभ्यते इत्येव ज्ञातुमीहे मन्मन इति चेत् ओघनियुक्ति पुरस्कृत्येति । सैव कथं प्रथमं पुरस्कृतेति चेत् ‘इयं प्रव्रज्याप्रथमदिवस एव दीयते' इति वृत्तिकृद्वचनमनुसृत्येति । यतो हीयमोघनियुक्तिः प्रव्रजितानां प्रथमदिवसे एव दीयते, तत एवास्माभिरपि प्रथमं तां पुरस्कृत्यैवायं ग्रन्थारम्भः क्रियत इति भावः ।
एवं तावत्प्रस्तावनां कृत्वाऽधुनौनियुक्तिग्रन्थमाश्रित्य सिद्धान्तरहस्यबिन्दुग्रन्थरचनमारभ्यते ।
லலலலலலலலலலலலலலலலலலலலலலலலலலல १४
सिद्धान्त रहस्य बिन्दुः