SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ नमोऽस्तु तस्मै जिनशासनाय सिद्धान्त रहस्यबिन्दुः । चन्द्रशेखरीया वृत्तिः वृत्तिकारमंगलम् - यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै जिनशासनाय ॥ अधुना श्रीतपोगच्छश्वेताम्बरमूर्तिपूजकजैनसंघे पञ्चचत्वारिंशदागमाः प्रसिद्धा:, तथाहि एकादश अङ्गानि, द्वादश उपाङ्गानि दश प्रकीर्णकानि षट् छेत्रसूत्राणि, चत्वारि मूलानि अनुयोगद्वारसूत्रं नंदीसूत्रञ्च । तेषु तदुपरि च प्रभूतानि निर्युक्तिभाष्यचूर्णि - वृत्तिरुपाणि विवरणानि उपलभ्यन्ते । ततश्च वर्तमानं श्रुतं प्राक्कालीनश्रुतसागराद् हीनमपि साम्प्रतकालीनानल्पायुर्मेधाधारणाबलसमन्वितजीवानाश्रित्य महोदधिकल्पमेव । किञ्चेयमवसर्पिणी ‘हुंडा' ऽपरनामिका, स्वभावत एव श्रुतचारित्रधर्मप्रतिकूला । तत्रापि च पञ्चमारकलक्षणोऽयं कालः कलिकारकत्वात्कलियुगापरनामकः विशेषतो मोक्षमार्गाराधनविघ्नकरः, तथा भरतक्षेत्रान्तर्वर्तीनि च क्षेत्राणि सत्संयमाप्रायोग्यानि, अत एवात्र वर्तमाना जीवा अपि हीनप्रज्ञा हीनायुष्काश्च ततश्च वर्तमानजीवानां वर्तमानमपि ७०७०७९५२७ सिद्धान्त रहस्य बिन्दुः ४७०७०७ १३
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy