Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 19
________________ १८७ ७०७०X १८७०७०७ महावीरपदेन स एव वाच्यते, नान्ये तीर्थंकराः । एवमत्रापि बोध्यमिति । इदन्तु बोध्यं चतुष्पदात्मकचूलाविरहितः पञ्चपदनमस्कारः न पञ्चमङ्गलमहाश्रुतस्कन्धः, किन्तु सर्वश्रुतस्कन्धाभ्यन्तरभूतः सः, नवपदात्मकश्च नमस्कारः चूलायुक्तत्वात् स्वतन्त्रः श्रुतस्कन्धः इति । तदुक्तं प्रतिमाशतके तृतीयकाव्यवृत्तौ → पञ्चपदनमस्कारश्च सर्वश्रुतस्कन्धाभ्यन्तरभूतः, नवपदश्च समूलत्वात् पृथक् श्रुतस्कन्ध इति प्रसिद्धमाम्नाये ← इति । समूलत्वात् = सचूलत्वात् पृथक् = स्वतन्त्र इति । शेषं स्पष्टम् । 3.t १६ all live digital religion googl se ta de (२) विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते, नारतः, इयं तु प्रथमदिवस एव दीयते । (ओ.नि. १-२ ) 69696969 pooooooooooooooooooooooooooooo चन्द्रः अयं भाव:, साधोः प्रतिदिनकर्त्तव्यरुपा ओघसामाचारी नवमपूर्वे वर्तते, तच्च दृष्टिवादे वर्तते । स च यस्य साधोः प्रव्रज्यापर्यायो विंशतिवर्षो भवति, तस्य दीयते, तत्पूर्वं तु नेति अभिनवप्रव्रजितानां ओघसामाचारी श्रुतरुपेण दुष्प्रापैव । केवलं आसेवनशिक्षारुपेण सा गुरोः सकाशात्प्राप्यते । ततश्चाभिनवप्रव्रजितानामपि सा श्रुतरुपेण सुप्रापा भवेदित्येतदर्थं भद्रबाहुस्वामिना नवमपूर्वात्सा उद्धृता । उद्धृता तु साऽभिनवप्रव्रजितानां प्रव्रज्याप्रथमदिवसे एव दातुं शक्यते, न तत्र विंशतिवर्षपर्यायापेक्षेति विंशतिवर्षपर्यायप्राप्या ओघसामाचारी ओघनिर्युक्तिरुपेण प्रव्रज्याप्रथमदिवसप्राप्या कृता भद्रबाहुस्वामिनेति एतदेव उपक्रमणम्, कालतः समीपमानयनमिति भावः । स्यादेतत् दृष्टिवादाध्ययनं साध्वीनां तावत्सर्वथा निषिद्धमेव, तत्किं तस्मादुद्धृताया ओघनिर्युक्तेरध्ययनं साध्वीनामनुमतं न वा इति । अत्रानुमतमिति वयं ब्रूमः, अत एव सर्वेषु गच्छेषु साध्वीनां ओघनिर्युक्त्यध्ययनं यथायोग्यं अनुमन्यमानं दृश्यत एव । ततश्च यच्छास्त्रं साध्वीनां अध्ययनाय निषिद्धं, तस्मादुद्धृतं तु शास्त्रं मूलशास्त्रात्पृथग्भूतं कथंचिदध्ययनायानुमतमपि भवेदिति सिद्धमिति । इत्थं च प्रकृतमपि सिद्धान्तरहस्यबिन्दुशास्त्रं साध्वीनां यथायोग्यमध्ययनायानुमतम् । केवलं पात्रता दृढं परीक्षणीयेत्येतावानेवोपदेशः । ७०७०७७X ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ல ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ் सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 206