Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 17
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல महोदधिकल्पं श्रुतं दुरवगाहं सञ्जातम् । ततश्च सम्यग्जिनागमबोधाभावात् का वार्ता परिणतिप्रधानचारित्रपालनस्य ? ज्ञानाधीनत्वात्तस्य, तदुक्तं 'पढमं नाणं तओ दया' (दशवैकालिकसूत्र) इति । चारित्राभावे चास्तां परमपदप्राप्तिः, सद्गतिरपि दुष्प्रापैवेति भवेद् दुर्लभमपि मानुषं जन्म निरर्थकमेवेति । एतच्च सर्वं मनसि विचिन्त्य 'आगमरहस्यावबोधः संक्षेपतोऽपि सम्यक सर्वेषां भवत्वित्येतदर्थं कश्चिन्महान्यत्न आवश्यक' इति दृढं निश्चितमस्माभिः । तदर्थमेवायमारम्भः सिद्धान्तरहस्यबिन्दुग्रन्थस्य । अत्र हि क्रमशः पञ्चचत्वारिंशता-मप्यागमानां अतीवोपयोगीनि वाक्यानि पृथक्कृत्य तदुपरि किञ्चिद् विवेचनं करिष्यतेऽस्माभिः । ___ यद्यप्यागमवाक्यान्यतीवगभीराणि, स्थूलप्रज्ञः स्थूलबोधश्चाहम्, तथापि 'शुभे यथाशक्ति यतनीयम्' इति । न्यायत इदं धायमवलम्बितमिति क्षमन्तु मां सज्जनाः । यादृशो मम शास्त्रबोधः, यादृशं च सम्प्रदायपरिज्ञानम्, यादृशश्च स्वानुभवः, तदनुसारेण विवरणं कर्तुं प्रयतिष्येऽहम् । एतत्रितयानुसारेणैव प्राचीनमहात्मभिर्ग्रन्थरचना समादृतेति अस्माभिरपि स एव मार्गः अनुसृतः, तदुक्तं योगशास्त्रे "श्रुताम्भोधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि योगशास्त्रं विरच्यते" इति हेमचन्द्रसूरिभिः । तथा अध्यात्मसारे "शास्त्रात्परिचितां सम्यक् सम्प्रदायाच्च धीमताम् । इहानुभवयोगाच्च प्रक्रियां कामपि ब्रूवे" इति यशोविजयोपाध्यायैः ।। ननु शोभनं कार्यमारभ्यते भवद्भिः, भविष्यत्यस्माद् ग्रन्थात्प्रभूतोपकारः श्रीश्रमणसंघस्य, विशेषतश्च सकलागमपठनासहिष्णुषु, सकलागमपठनाधिकाररहितेषु च श्रमणेषु तादृशीषु च श्रमणीषु । किन्तु प्रथमं कमागमं पुरस्कृत्यायं ग्रन्थ आरभ्यते इत्येव ज्ञातुमीहे मन्मन इति चेत् ओघनियुक्ति पुरस्कृत्येति । सैव कथं प्रथमं पुरस्कृतेति चेत् ‘इयं प्रव्रज्याप्रथमदिवस एव दीयते' इति वृत्तिकृद्वचनमनुसृत्येति । यतो हीयमोघनियुक्तिः प्रव्रजितानां प्रथमदिवसे एव दीयते, तत एवास्माभिरपि प्रथमं तां पुरस्कृत्यैवायं ग्रन्थारम्भः क्रियत इति भावः । एवं तावत्प्रस्तावनां कृत्वाऽधुनौनियुक्तिग्रन्थमाश्रित्य सिद्धान्तरहस्यबिन्दुग्रन्थरचनमारभ्यते । லலலலலலலலலலலலலலலலலலலலலலலலலலல १४ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 206