Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 377
________________ ૩૫૪ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન :: परिशिष्ट-२ :: प्रथमाऽध्याय-प्रथमपादस्य बृहन्यास-लघुन्यासौ अहँ ।१।११॥ बन्यास- श्रीमन्तमजितं देवं श्रीमत्पार्श्व जिनोत्तमम्। शेषं निःशेषकर्तारं स्मृत्वा टीका प्रतन्यते ।।१।। प्रणम्येत्यादि-जगदुपचिकीर्षाप्रवृत्तः शास्त्रकारः स्व-पराभीष्टार्थसिद्धये परापराधिदेवतां व्युत्पित्सुश्रोतृप्रवृत्त्यङ्गप्रयोजनादिगर्भ प्रणम्येत्यादिनाऽभिष्टौति। प्राति पूरयति-धातुनोक्तमर्थमनभिव्यक्तमभिव्यनक्ति प्रः, “णमं प्रहृत्वे" प्रणमनं पूर्वं "प्राक्काले" (५.४.४७) इति क्त्वायाः “अनञः०" (३.२.१५४) इति यबादेशे प्रणम्य। पृणाति लब्धमर्थं पालयति, अलब्धेन तु पूरयति "स-पृ-प्रथि०" (उणा० ३४७) इत्यमे परम:-अतिशयशाली, अतति गच्छति ज्ञानादिषु पर्यायेष्विति "सात्मनात्मन्०" (उणा० ९१६) इति मनि दीर्घत्वे च आत्मा, ततः "सन्महत्०" (३.१.१०७) इत्यादिना समासः। इदं व्याकरणजातं प्रशस्यम्, इदमनयोरतिशयेन प्रशस्यम् "गुणाङ्गाद्वेष्ठेयसू” (७.३.९) इति ईयसौ “प्रशस्यस्य श्रः” (७.४.३४) इति श्रे श्रेयः, विप्रकीर्णातिविस्तरादिदोषरहितत्वात्। शपति-आह्वयत्यभिधेयमर्थमिति “शा-शपि०" (उणा० २३७) इति दे शब्दः, अनुशिष्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति अनुशासनम्, शब्दानामनुशासनं शब्दानुशासनं व्याकरणम्। आचर्यते सेव्यते, आचारान् गृह्णाति परं च ग्राहयतीति निरुक्तेर्वा आचार्य:शास्त्रविधिना स्वयं गुरुणा प्रतिष्ठितः। यद्वा आ सामस्त्येन शास्त्रार्थाश्चर्यन्ते ज्ञायन्तेऽनेन, अस्माद् वेत्याचार्यः-शास्त्रार्थानां ज्ञाता उपदेष्टा च, अस्यैवात्र ग्रहणं शास्त्रप्रस्तावाद्, एवं च विशेषणत्वात् पूर्वनिपातो भवति आचार्यहरिभद्रतिवत्, अन्यथा तु परनिपात-प्रसङ्गः संज्ञाशब्दत्वेन विशेष्यत्वाद् इति। हिनोति गच्छति स्वगुणैरादेयतामिति “क्षु-हिभ्यां वा" (उणा० ३४१) इति मे हेमः-स्वर्णम्, तद्गुणत्वाद् हेमः, “चदु दीप्त्याऽऽह्नादयोः" चन्दति आह्नादयतीति “भी-वृधि०" (उणा० ३८७) इति रे चन्द्रःशशी, तत्समत्वात् चन्द्रः, ततो मयूरव्यंसकादित्वात् कर्मधारयः। “स्मृचिन्तायाम्" स्मृत्वोत-उपदेशपारतन्त्र्येण कृत्वा। किञ्चिदिति स्वल्पं क्रियाविशेषणम्। “काशृङ् दीप्तौ" प्रकाशते शब्दानुशासनम्, “प्रयोक्तृव्यापारे णिग्" (३.४.२०) इति णिगि, “क्यः शिति" (३.४.७०) इति क्ये प्रकाश्यत इति पदार्थः। । परमात्मानम्-अव्याहतज्ञानातिशयशालिनं देवताविशेषं प्रणम्य श्रेय:-शब्दानुशासनं शास्त्रं सकलजनानुग्रहकाम्यया क्रियमाणत्वाद् आचार्यहेमचन्द्रेण सर्वज्ञादाक् सर्वप्रकाशनासंभवात् किञ्चित् प्रकाश्यत इति समन्वयः। शब्दानुशासनमिति व्याक-रणस्य अन्वर्थं नामेति शब्दानामनुशासनं न त्वर्थानामिति, एतावत एवार्थस्य विवक्षितत्वात्। आचार्यस्य कर्तुः प्रयोजनाभावाद् अनुपादानाद् उभयप्राप्त्यभावाद् न “द्विहेतोरस्त्र्यणकस्य वा" (२.२.८७) इति षष्ठीपक्षे तृतीयेति "तृतीयायाम्" (३.१.८४) इति समासप्रतिषेधाप्रसङ्गाद् इध्मव्रश्चनवत् समासः। आचार्यहेमचन्द्रेणेति-अस्य तु प्रकाश्यते इत्यनेन संबन्धः। न च शब्दशात' इत्यन्यशब्दत्वाद् विना प्रकरणादिना विशेषेऽवस्थानाभावात् तन्त्रीशब्दकाकवासितादीनामप्यनुशासनप्रसङ्ग इति, यतो व्याकरणस्य प्रस्तुत-त्वात् सामर्थ्याद् विशेषावगतेलौकिकानामार्षाणां च शब्दानामिति गम्यते। अथवा परम् आत्मानं चेति व्यस्तम्, आत्मनोऽपि ध्येय-त्वात्, तस्मिन् हि प्रसन्ने तत्त्वं प्रसीदति। वीतदोषकलुषः पुरुषविशेषः परः, अपरश्चात्मा, उभयपरिज्ञानाञ्च मिथ्याज्ञानादिनिवृत्तिः, यतः १. 'श्रेयसां शब्दानामनुशासनम्' इति पाठान्तरम। 'शब्दशब्दस्य सामान्यशब्दत्वात्' इति पाठस्तु कैयटे वर्तते स एव संभाव्यते। (भाष्य-भा० १. पृ० ९. निळसाप्रे०)

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484