Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 402
________________ परिशिष्ट-२ 394 स्पृष्टता, सा आदिर्यस्येत्यर्थः), स्पृष्टादि च करणम्, यत् कस्यचिद् वर्णस्य निष्पत्तौ परस्परमीषदनीषञ्च स्पृशति, विव्रियते, संवियते चेति, वर्णधर्मो वा, वर्णोऽपि हि स्वपरिणामाऽऽलम्बनयोः स्थानकरणेन तथा स्पृश्यते, तथा चाधीयते-"स्पर्शयमवर्णकरो वायुरयस्पिण्डवत् स्थानमवपीडयति, यमाश्च कुं हुं गुं धुं इत्येवंरूपा न लोके उपयुज्यन्ते, अन्तस्थावर्णकरो वायुर्दारुपिण्डवद्, ऊष्मस्वरवर्णकरो वायुरूर्णापिण्डवद्” इति, तत् कथं स्पृष्टतादिः प्रयत्नो भवति? प्रयत्नो हि नामाऽऽत्मनो वीर्यपरिणामरूपः संरम्भः। उच्यते-प्रयत्नहेतुकत्वात् प्रयत्नः । यद्धि यद्धेतुकं तत् तद्व्यपदेशं प्रतिपद्यते, यथा-'अन्नं वै प्राणाः' इत्यत्रान्नव्यपदेशं प्राणा इति, तत्रैवास्य रूढिरित्यवयवार्थः (आस्यान्तर्गततत्तस्थानेषु जिह्वाग्रादीनां वर्णाऽभिव्यञ्जकस्पर्शेषत्स्पर्श-दूरावस्थान-समीपावस्थान -रूपाऽभ्यन्तरकार्यकारिप्रयत्नविशेषा एतैः पदैरुच्यन्ते। तेषामास्यवृत्तित्वमास्यान्तर्गततत्तत्स्थानेषु वायुसंयोगजनकत्वेन बोध्यम्) समुदायार्थमाह-तुल्यौ वर्णान्तरेणेत्यादि। ननु 'यस्य' इति वक्तव्यम्, कथमन्यथा 'यस्य स वर्णस्तं प्रति स्वसंज्ञो भवति' इत्युच्यते? अन्यस्य तुल्यस्थानाऽऽस्यप्रयत्नोऽन्यस्य स्व: स्यादिति (न)। न वक्तव्यम्, तुल्यशब्दस्य (सम्बन्धिशब्दत्वात्,) संबन्धिशब्दानां चायं भाव:-यदसति निमित्तान्तरे सम्बन्धिन्येव प्रत्ययं जनयति। यथा-'मातरि वर्तितव्यम्' 'पितरि शुश्रूषितव्यम्' इति, न चोच्यते 'स्वस्यां मातरि' 'स्वस्मिन् पितरि' इति, सम्बन्धादेतद् गम्यते-या यस्य माता, यश्च यस्य पितेति, एवमिहापि यस्य यः तुल्यस्थानाऽऽस्यप्रयत्नः स तं प्रति स्वसंज्ञो भवति। यथा 'तुल्याय कन्या दातव्या' इत्युक्ते न शूद्रेण तुल्याय ब्राह्मण: कन्यां ददाति, किन्त्वात्मनः(ना), तथेहापीत्यर्थः । किञ्च, यद्यन्यस्य तुल्यस्थानाऽऽस्यप्रयत्नोऽन्यस्य स्वसंज्ञः स्यात्, तदा स्वसंज्ञावचनमनर्थकं स्याद्, व्यवच्छेद्याभावात्। न च रेफोष्मणां स्वसंज्ञाव्यावृत्त्यर्थं भविष्यतीति वाच्यम्, रेफस्यापि रेफः स्वो भवति, रेफस्य व्यक्तीनां भूयस्त्वाद्, एवमूष्मस्वपि द्रष्टव्यमिति। ननु करणतुल्यताऽपि स्वसंज्ञाप्रयोजिका, भिन्नकरणानां स्वत्वाभावात्। तथाहि-जिह्वय-तालव्य-मूर्धन्य-दन्त्यानां जिह्वया करणम्। कथमिति? जिह्वामूलेन जिह्वयानाम्, जिह्वामध्येन तालव्यानाम्, जिह्वोपाग्रेण मूर्धन्यानाम्, जिह्वाग्राधः करणं वा, जिह्वाग्रेण दन्त्यानाम्, शेषाः स्वस्थानकरणास्तत् कथमिदं नोक्तम्? उच्यते-स्थानाऽऽस्यप्रयत्नतुल्यत्वे करणस्य तुल्यत्वाद् इत्याह-करणं त्विति। अथ कस्य किं स्थानं प्रयत्नो वा? न ह्यस्येदं स्थानं वेत्यविज्ञाते तदैक्यानुवादेन विधीयमानं स्वत्वं शक्यं विज्ञातुम्, इत्यत आह-तत्र स्थानमिति। ननु स्थानमुपक्रान्तम्, 'अवर्ण-ह-विसर्ग०' इत्यादिना तु स्थानिनो निर्दिष्टाः, ततश्चान्यदुपक्रान्तमन्यद् निर्दिष्टमिति; नैष दोषः, यथा-'लोहितोष्णीषा ऋत्विजः प्रचरन्तु' इति ऋत्विक्प्रचारस्यान्यतः प्रतीतत्वाद् लोहितोष्णीषत्व एव विधिः पर्यवस्यति, एवमिहापि 'कण्ठे भवाः कण्ठ्याः ' इति कण्ठ एव विधिः, एवमन्यत्रापि। यदाहुर्वाक्यविद:-"सविशेषणौ हि विधि-निषेधौ विशेषणमुपसंक्रामतः" इति। उपायानामप्राधान्यख्यापनार्थं चैवं निर्देश इति । सर्वं समस्तं मुखं स्थानमस्येति सर्वमुखस्थानम्, अष्टादशभेदभिन्नमवर्णत्वनिष्पत्तौ (अष्टादशभेदभिन्नाऽवर्णनिष्पत्तौ) हि रावमेव मुखं व्याप्रियते। सन्ध्यक्षराणां द्विवर्णत्वात् पूर्वभागस्यावर्णरूपत्वादुत्तरस्य चेवर्णोवर्णरूपत्वादुभयव्यापारेऽपि भूयसाऽवयवेन व्यपदेशाद् ‘ए-ऐ तालव्यौ, ओ-औ ओष्ठ्यौ ' इत्युक्तम्। यद्वा (ए-ऐ) तालव्यौ, ओ-औ ओष्ठ्यावित्युक्तौ, (अयं पाठोऽधिक इवाऽऽभाति, यदिवाऽयमत्र संस्कार:-यद्वा उभयव्यापारसमाश्रयणाद्, 'ए-ऐ कण्ठ्य-तालव्यौ, ओ-औ कण्ठ्यौष्ठ्यो' इत्युक्तौ; यद्वा तालव्यावेव ओष्ठ्यावेव एतौ' इत्युत्तरपाठेन सहाऽस्य पाठस्य एकीकरणादयमर्थः-यद्वा ‘ए-ऐ तालव्यौ, ओ-औ ओष्ठ्यो इत्युक्तौ,'-इत्युक्तितः तालव्यावेव कण्ठ्यावेव एतौ तालुस्थानजन्यत्वात् कण्ठस्थानजन्यत्वादिति बोध्यमिति शेषः, विशिष्टार्थं तु शिष्टा जानन्तु।) यद्वा तालव्यावेव ओष्ठ्यावेव एतौ। यद् हरि: "एवं शिक्षाकाराः प्रतिपन्नाः ओष्ठ्य-तालव्यावेतौ" इति। अत्र नोद्यते-केन दर्शनेन शिक्षाभेदः? इत्येतत् प्रतिपाद्यम्, कथं तालव्यत्वे सति एकारस्य ईकारस्य च श्रुतिभेदः? ओष्ठ्यत्वे सति ऊकारस्य ओकारस्य च? एतेषां हि स्थान-प्रयत्न-काला: सर्वेऽभिन्ना इति। दर्शनभेदाददोषः, एके मन्यन्तेयोऽसौ वर्णस्य निष्पादको वायुः, स एकारस्य निर्वृत्तौ तालुसमीपे यः कण्ठस्तमुपश्लेषयति, केवलं स्थानं तु ताल्वेव; एवमोष्ठावेव

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484