Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
४33 सङ्घयानकरणत्वेनैकादीनां ग्रहणं भवतु, बह्वादीनां ग्रहणं कथं भविष्यति? नहि बह्वादिभिरेकादिभिरिव सङ्घयायत इति न वाच्यम्, बह्वादिभिरपि स्वव्याप्यत्रित्वादिद्वारा सङ्घयायत इत्यस्येव सङ्ख्यानकरणत्वेन सङ्ख्यात्वम्। एवं गणशब्दस्यापि। डत्यन्तकतिशब्दस्य सङ्ख्यानकरणीभूतार्थविषयकप्रश्नार्थकत्वेन सङ्ख्यात्वव्यवहारः। अत्वन्तेषु कियच्छब्दे कतिशब्दवदेव सङ्ख्यात्वम्, यावत्-तावत्एतावत्-शब्दादौ च सङ्ख्यया परिच्छेदबोधतात्पर्यकत्वदशायां सङ्घयानकरणीभूतैकत्वादिरूपसङ्ख्यात्वव्याप्यधर्मविशिष्टबोधकतया सङ्ख्यात्वं बोध्यम्, इयाँस्तु भेदः-एकादीनां नियतविषयपरिच्छेदहेतुत्वं तावदादीनामनियतविषयपरिच्छेदहेतुत्वमिति । इत्थं च सूत्रस्य "बहु-गण-डत्यतु सङ्ख्या" इत्याकारकत्वे सर्वमनाकुलमेव। परन्तु इदमवधेयम्-प्रथमे नियमत्वकल्पे 'सङ्ख्या' इति योगविभजनम्, तत्रापि संज्ञामात्रनिर्देशात् संज्ञा-संज्ञिभावानुपपत्तिः, तन्निवृत्तये संज्ञिनामाक्षेपः, संज्ञाया अन्वर्थताश्रयणम्, अन्वर्थताश्रयणेऽपि *सकृदुच्चरितः शब्दः सकृदर्थं गमयति* इत्यस्य सत्त्वेनाऽऽवृत्तिराश्रयणीया। तथा द्वितीययोगे पूर्वयोगेन सिद्धिहेतुकवैयर्थेन वाक्यान्तरकल्पना, पूर्वयोगीयोद्देश्यतावच्छेदकव्यापकावच्छिन्ने नियामकयोगीयोद्देश्यतावच्छेदकव्यापकनियम्ययोगीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नतिरिक्तत्वेन सङ्कोचः, सङ्ख्याशब्दानुवृत्तिश्च, इत्यादि बहु गौरवं भवतीति तत्पक्षो नादरणीयः। द्वितीयकल्पे-साहचावलम्बनम्, एकादीनां प्रदेशेषु ग्रहणार्थ महासंज्ञाकरणसामर्थ्येन योगार्थस्य ग्रहणम्, योगार्थमात्राद् बह्वादीनां सङ्ग्रहो न भवतीति योगानपेक्षार्थस्यापि ग्रहणम्, तदुभयस्य बोधसम्पदे तत्तद्धर्मावच्छिन्नार्थनिरूपितशक्तिज्ञानाधीनतत्तद्धर्मावच्छिन्नार्थविषयकोपस्थित्योः शाब्दविशेष प्रति पृथक् कारणत्वम्, इति बहुविधकल्पनागौरवमिति तत्पक्षोऽप्यनादरणीय एव। “डत्यतु सङ्ख्यावत्" "बहु-गणं भेदे” इति न्यासे तु न काऽपि विडम्बनेति तदादरः सूत्रकारस्य प्रशस्य इति मन्महे।
न चैवं सति प्रकरणभेद इति वाच्यम्, संज्ञासूत्राणां समाप्तत्वाद् अतिदेशसूत्राणां चारम्भात्। न चैवमप्येकस्मिन् पादेऽधिकारद्वयमनुचितमिति वाच्यम्, यतो न ह्येवंविधो नियमोऽस्ति, यद् एकस्मिन् पाद एकेनैवाधिकारेण भवितव्यमित्यास्तां बहुविस्तर इति।।४०।।
ल.न्यास- बहुगणमित्यादि। वैपुल्य इति-यथा रजोगणः, रजःसंघात इत्यर्थः। अथ बहु-गणशब्दयोर्भेदवचनत्वात् सङ्ख्यात्वमस्त्येव, यतो भेदः परिगणनं सङ्घयेति, ततश्चैक-व्यादीनामिव बहुगणशब्दयोरपि लोकादेव सङ्ख्यात्वसिद्धौ किमनेनातिदेशवचनेन? अतिदेशो हि अन्यत्र प्रसिद्धस्यान्यत्र प्रसिद्धिप्रापणार्थ इत्याह-बहुगणावित्यादि-लोके टेक-व्यादीनां नियतावधिभेदाभिधायित्वे सङ्ख्याप्रसिद्धिः, अनयोश्च न तथेति सङ्ख्याप्रसिद्धरभाव इति ।।४०।।
क-समासेऽध्यर्धः ।११।४१।। बृन्यासानु-क-समास इत्यादि। यद्यपि निमित्ति निमित्तं कार्यमिति रचनाक्रमेण "इवर्णादरस्वे स्वरे यवरलम्" (१.२.२१) इत्यादाविव “अध्यर्धः क-समासे” इति निर्देशः प्राप्तस्तथापि लाघवार्थं "क-समासेऽध्यर्धः" इति निर्देशः कृतः, एकमात्राकृतं लाघवं भवति। यद्वा निमित्तिपदं नियमतः पूर्वमेव प्रयुज्यतेति द्रढिमानमुपगतस्य भ्रमात्मकसंस्कारस्य समुन्मूलनायैव तथानिर्देशः, प्रचुरप्रयोगप्रवाहो यद्यपि निमित्तिपदपूर्वक एवोपलभ्यते तथाऽपि क्वचिद् व्युत्क्रमेण प्रयोगेऽसाधुत्वं मा प्रतीयतामिति तात्पर्यम्। एवमप्यर्थपरं वाक्यं निमित्तिपूर्वकमेव सुबोधाय कल्प्यमित्याह-अध्यर्धशब्द इति-"ऋधूच् वृद्धौ” इत्यतः "ऋधूट् वृद्धौ" इत्यतो वा घञि अर्धः, अर्धन अधिक इत्यध्यर्धः, “प्रात्यवपरिनिरादय:०" (३.१.४७) इति समासः, यद्वा अधिकमर्थं यस्य सोऽध्यर्धः, “एकार्थं चानेकं च" (३.१.२२) इति बहुव्रीहिः। क-समास इति-कश्च समासश्चानयोः समाहारः क-समासं तत्र तथा, “के समासे” इति व्यस्तनिर्देशे क-समासयोः' इतीतरद्वन्द्वनिर्देशे वा विवक्षितार्थसिद्धावपि गौरवं स्याद्, अतो लाघवार्थ समाहारद्वन्द्वेन निर्देशः, तत्राल्पस्वरत्वात् कशब्दस्य प्राङ्निपातः।
Loading... Page Navigation 1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484