Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 459
________________ ૪૩૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન -पुरुषपदघटितत्वं राजत्वावच्छिन्ननिरूपितशक्तिग्रहप्रयोज्यो यो ग्रहो राजसम्बन्धिपुरुषत्वावच्छिन्ननिरूपितशक्तिविषयकः, तद्ग्रहविषयीभूतोक्तराजपुरुषत्वावच्छिन्नार्थनिरूपितशक्तिपर्याप्त्यधिकरणत्वमित्येतत्त्रितयमपि राजपुरुषपदे वर्तत इति तत्रास्ति निरुक्तमैकार्थ्यम्, ईदृशे चैकार्थ्ये समाससंज्ञकपदमवष्टभ्यावस्थास्यमाने एव षष्ठ्यन्तं 'राजन् ङस्' इति 'पुरुष सि' इत्यनेन सह 'षष्ठ्ययत्नाच्छेषे' (३.१.७६) इति सूत्रेण समस्यते, सर्वत्र समासस्थल ईदृशैकार्थ्येनाऽऽसितव्यमेव, प्रकृतेऽर्द्धपञ्चमैः शूपैः क्रीतमित्यर्थे “ सङ्ख्या समाहारे च० " (३.१.९९) इति समासश्चिकीर्षितः, स च शूर्पपदेन सह सङ्ख्यावाचकस्येति तदुभयसमुदयगतेनोक्तैकार्थ्येनेहापि भवितव्यं राजपुरुषादिपदगतेनेव, परं पूरणप्रत्ययान्तपञ्चमादिशब्दमात्रस्यार्द्धपञ्चमशब्दघटकस्य सङ्ख्यावत्त्वे नैतत् सम्भवति, तथाहिपञ्चमशब्दमात्रस्य सङ्ख्यावत्त्वे तस्यैव परेण शूर्पादिनाम्ना सह समासो भविष्यति, तस्मिंश्च पञ्चमशूर्परूपसमासात्मकसमुदये शूर्पत्वावच्छिन्ननिरूपितशक्तिपर्याप्त्यधिकरणशूर्पपदघटितत्वस्य सत्त्वेऽपि तच्छक्तिनिरूपकेतराऽर्द्धपञ्चमत्वावच्छिन्ननिरूपितशक्तिपर्याप्त्यधि करणाऽर्द्धपञ्चमशब्दघटितत्व- तच्छक्तिग्रहप्रयोज्यग्रहविषयीभूताऽर्द्धपञ्चमत्वविशिष्टशूर्पत्वावच्छिन्ननिरूपितशक्तिपर्याप्त्यधिकरणत्वयोः सत्त्वं नास्तीति स्पष्ट एव तदैकार्थ्यविरहः । न च पञ्चमशूर्परूपसमुदये शूर्पत्वावच्छिन्ननिरूपितशक्तिपर्याप्त्यधिकरणशूर्पपदघटितत्वस्येव शूर्पार्थशक्तीतरपञ्चमत्वावच्छिन्नार्थनिरूपितशक्तिपर्याप्त्यधिकरणघटितत्व- शूर्पार्थनिरूपितशक्तिग्रहप्रयोज्यग्रहविषयीभूतपञ्चमशूर्पार्थनिरूपितशक्तिपर्याप्त्यधिकरणत्वयोरपि सत्त्वादैकार्थ्यमस्त्येवेति वाच्यम्, अर्द्धपञ्चमशूर्पात्मकसमुदायनिष्ठाऽर्द्धपञ्चमशूर्पार्थनिरूपिता शक्तिरेव प्रकृते अर्द्ध-पञ्चम-शूर्पार्द्धपञ्चमशब्दार्थनिरूपितशक्तीनां ग्रहैः प्रयोज्यस्य ग्रहस्य विषयीभूता न तु पञ्चमशूर्पार्थनिरूपितशक्तिरिति तृतीयसम्बन्धस्य विघटनया पञ्चमशूर्पात्मकसमुदये ऐकार्थ्यस्य दुर्घटत्वात् । अभ्युपेत्यवादेऽपि पञ्चमशूर्पशब्दे समासत्वेऽप्यर्द्धपञ्चमशूर्पात्मकसमुदयात् स्याद्युत्पत्तेरसम्भवो दोषः, तथाहि इदानीं (पञ्चमशब्दमात्रस्य सङ्ख्यावत्त्वेन पञ्चमशूर्पस्य समाससंज्ञकत्वे) अर्द्धपञ्चमशूर्पात्मकसमूहे अर्द्धपञ्चम-पञ्चमशूर्पशब्दौ समाससंज्ञकावन्तःप्रविष्टौ, समूहोऽर्द्धपञ्चमशूर्पशब्दस्तु न कथञ्चित् समाससंज्ञक इति तत्समूहे ऽर्थवत्ताया विरहेण " अधातुविभक्तिवाक्यमर्थवन्नाम" (१.१.२७) इत्यनेन नामत्वाप्राप्तौ स्याद्युत्पत्तेरसम्भवः, नामसंज्ञासूत्रे हि अर्थपदेनाभिधेयार्थी गृह्यते, स च स्वार्थ- द्रव्यादिस्वरूपो घट-पटादिशब्दैरसमस्तै राजपुरुषादिशब्दैः समस्तैश्च प्रतीयते, समासे खलु विशिष्टार्थनिरूपिता शक्तिः शाब्दिकैरभ्युपेयमाना स्वज्ञानं द्वारीकृत्यार्थाभिधाने पर्याप्नोतीति सिद्धान्तः, अयमिदानीमर्द्धपञ्चमशूर्पात्मकः शब्दः समासात्मको नास्तीति समासादिवृत्तित्वव्याप्यया विशिष्टार्थनिरूपितया शक्त्या राजपुरुषादिरिव नालिङ्गयते, शक्तिग्राहकाणां तादृशकोषादीनां चाभावेन घटपटादिरिव च न कतमयाऽपि शक्त्याऽऽलिङ्गयत इति तत्र स्थितः शक्त्यभावोऽर्थाभावनिरूपितव्याप्तिभाक् स्वज्ञानेनार्थाभावमनुमापयन्नर्थाभावव्यापकं नामत्वाभावमपि समूलघातं विहन्यादिति नामत्वरहितोऽर्द्धपञ्चमशूर्पशब्दः स्वस्मात् परं स्यादिमेव कथमुत्पादयितुमीशीतेति सूक्ष्मं चक्षुर्निःक्षिप्यतां प्रेक्षावद्भिः। इत्थं निराकृतः 'अर्द्धात् पूरणः' इति न्यासः । अथाऽव्याप्त्यतिव्याप्ती अविकलं सृजनुक्तन्यासः क्रियतामुपेक्षालक्ष्यः, परमर्द्धात्मकं पूर्वं पदं यस्येत्यर्द्धपूर्वपदशब्देन गृह्यमाण एवार्थो यदि न्यासान्तरेणापि लघीयसा प्रतीयेत का नाम तदा तस्योपेक्षावृत्तिः ? तच न्यासान्तरम् “ अर्द्धपूर्वः पूरण: " इति शब्दशास्त्रे हि प्रायेण शब्दानामेव तत्तत्सूत्रैरतिदेशः प्रदर्शित इति सङ्ख्यावत्त्वमपि तेषामेव युक्तमतिदेष्टुम् एवं हि शब्दात्मकमेव पूर्वं न्यासीयपूर्वशब्देन ग्रहीष्यते, करिष्यते च पदशब्दघटितेन अर्द्धात्मकं पूर्वपदं यस्येत्यर्थं बोधयता “अर्द्धपूर्वपदः पूरणः” इति न्यासेनेव क्रियमाणाऽतिदेशानामर्द्धपञ्चमादिशब्दानामनेनापि लधीयसा न्यासेनाऽतिदेश इति किमर्था तदुपेक्षेति चेद्, उच्यते- तथान्यासे अर्द्धशब्दात् परतया स्थितस्य पूरणप्रत्ययान्तस्य पञ्चमादिशब्दस्यैव सङ्ख्यावत्त्वं स्यान्न तु समग्रस्यार्द्धपञ्चमशब्दस्येति “अर्द्धात् पूरणः” इति न्यासपक्षे इवास्मिन् पक्षेऽपि समग्रस्य सङ्ख्यावत्त्वाभावमूलौ कप्रत्ययसमासौ न सिद्ध्येतामित्यव्याप्तिः, अर्द्धन पञ्चमेन क्रीतमित्याद्यर्थे समासानवयवस्यापि पञ्चमादिशब्दस्य सङ्ख्यावत्त्वेन कप्रत्ययसमासयोरापत्तिरित्यतिव्याप्तिश्चाऽऽपतेतामिति “अर्द्धपूर्वः पूरणः” इति न्यासोऽप्युपेक्ष्यते ।

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484