Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४३८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન न्यासात्, ‘अर्द्धपूर्वपदः पूरणः' इति न्यासे तु न तादृशमनुसन्धानं व्याप्नोतीति ततः स्पष्टा प्रतिपत्तिरिति तात्पर्यम। अत एव वार्तिककारेणापि “अर्द्धपूर्वपदः पूरणप्रत्ययान्तः" इति न्यास एवोपनिबद्धः।
क्वचिदवयववाचकतया प्रयोगो यदि दृश्यते पूर्वशब्दस्य, तदा लक्ष्यानुरोधात् प्रकृतेऽप्यवयववाचकत्वाङ्गीकारेणार्द्धशब्दाद्यवयवकस्यार्द्धपञ्चमादिशब्दस्येष्टं सङ्ख्यावत्त्वं भविष्यत्येवेति यद्युच्येत, तदाऽपि 'अर्द्धपिप्पलीपञ्चम'शब्दादेरर्द्धशब्दपूर्वावयवकत्वेन सङ्ख्यावत्त्वातिव्याप्तिः केनाप्युपायेन न परिहरणीयेति निराकरणीय एव अर्द्धपूर्वः पूरणः' इति न्यासः । इत्थं च निरन्तरायः “अर्द्धपूर्वपदः पूरणः" इत्येव न्यासो युक्त इत्याह-अर्द्धपूर्वपद इति। नन्वेतन्यासाश्रयणेऽपि पूर्वशब्दस्यानवयववाचकत्वाङ्गीकारे पूर्वोक्तरीत्या अर्द्धशब्दात् परस्य केवलस्य पञ्चमादिशब्दस्यैवातिदेश इति पुनरपीष्टौ कप्रत्यय-समासौ न तत्र सिद्धयेताम्, अवयववाचकत्वाश्रयणे अर्धपिप्पलीपञ्चमादिशब्देऽतिदेशप्रसक्तिरिति ‘अर्द्धपूर्वः पूरणः' इति न्यासपक्षे आपतन् दोषसमूह इहापि न रुद्ध्यत इत्यत
आह-समासावयवभूते पदे इति। प्रसिद्धिः-रूढिरित्यर्थः, अत्र पूर्वपदशब्दस्य समासाद्यवयवपदे उत्तरपदशब्दस्य समासचरमावयवपदे रूढिरिति विवेको ज्ञेयः, न तु समासावयवमात्रे रूढिः, तथा च वृत्तिघटकपदाभिव्यक्तिक्षणध्वंसाधिकरणक्षणाऽवृत्तित्वसहितवृत्तिघटकपदाभिव्यक्तिक्षणप्रागभावाधिकरणक्षणवृत्तित्वविशिष्टस्यैव रूढ्या पूर्वपदशब्दप्रतिपाद्यतया अर्द्धपञ्चमप्रभृतिशब्दानां सङ्ग्रहः, पिप्पल्यर्द्धपञ्चमशब्दादेरसङ्ग्रहश्च सिद्ध्यतः, समासावयवमात्ररूढत्वे तु अर्द्धशब्दावयवके पूरण प्रत्ययान्तघटितेऽतिदेशः स्याद्' इत्यर्थस्य फलितार्थत्वेन पिप्पल्यर्द्धपञ्चमादावतिदेशो दुर्निवारः स्यात्। नन्वेवं पिप्पल्यर्द्धपञ्चमशब्दघटकेऽर्द्धशब्दे वृत्तिघटकपञ्चमशब्दाभिव्यक्तिप्रागभावाधिकरणक्षणवृत्तित्वेऽपि वृत्तिघटकपिप्पलीशब्दाभिव्यक्तिक्षणध्वंसाधिकरणक्षणाऽवृत्तित्वाभावेन परिष्कृतपूर्वपदत्वाभावात् समुदिते पिप्पल्यर्द्धपञ्चमशब्देऽतिदेशस्य वारणेऽपि अर्द्धपिप्पलीपञ्चमशब्दस्य वारणं न जातम्, तत्राप्यऽर्द्धशब्दस्य निरुक्तपूर्वपदत्वादिति चेद्, न-यां वृत्तिमादाय कप्रत्ययादिश्चिकीर्षितस्तामेवादाय पूर्वपदत्वस्याऽर्द्धशब्दे पर्याप्तिसत्त्वेऽतिदेशस्येष्टत्वेनार्द्धपिप्पलीपञ्चमशब्दघटकेऽर्द्धशब्दे कप्रत्ययविधानावध्यर्द्धपिप्पलीपञ्चमरूपवृत्तिघटकपदाभिव्यक्तिक्षणध्वंसाधिकरणक्षणाऽवृत्तित्वसत्त्वेऽपि पर्यवसाने समाससूत्रीयप्रथमान्तपदनिर्दिष्टतापर्याप्त्यधिकरणत्वविरहेण तत्र तादृशवृत्तिघटकपदाभिव्यक्तिक्षणप्रागभावाधिकरणक्षणवृत्तिताया अभावात्, 'वृत्तिघटकपद' शब्देन हि तत्समासशास्त्रीयेण प्रथमान्तपदेन तृतीयान्तपदेन वा निर्दिष्टतायाः पर्याप्त्यधिकरणं गृह्यते, तच्च अर्द्धपिप्पलीपञ्चमवृत्तावर्द्धपिप्पलीरूपं पञ्चमरूपं च, न तु पिप्पलीमात्रमिति न तदादायार्द्धशब्दे पूर्वपदत्वम्। न च वृत्तिघटकपञ्चमशब्दाभिव्यक्तिप्रागभावाधिकरणक्षणवृत्तितापर्याप्तरर्द्धपिप्पलीशब्द इव केवलार्द्धशब्देऽपि सत्त्वानिरुक्तं पूर्वपदत्वं तत्रास्त्येवेति वाच्यम्, समासशास्त्रीयप्रथमान्तपदनिर्दिष्टतापर्याप्त्यधिकरणपर्याप्तत्वेनैव पूर्वपदत्वादिव्यवहारस्य दृष्टतयाऽर्द्धशब्दे तादृशवृत्तितापर्याप्तः सत्त्वेऽपि समासशास्त्रीय-प्रथमान्तपदनिर्दिष्टतापर्याप्तेस्तत्र विरहेण पूर्वपदत्वव्यवहाराभावात्।
"पूरणोऽर्द्धपूर्वपदः” इति न्यासे मात्राकृतलाघवस्य सत्त्वेऽपि विशेषणपदस्य पूर्वप्रयोगः सति सम्भवे न्याय्य इत्यर्द्धपूर्वपदशब्द एव पूर्वमुपात्तः। पूर्यतेऽनेनेति पूरणः, तदर्थकप्रत्ययोऽपि पूरणः, प्रत्ययस्य प्रकृत्यविनाभावित्वात् प्रकृतेराक्षेपे “प्रत्ययः प्रकृत्यादे:" (७.४.११५) इति प्रत्ययस्य विशेषणत्वे “विशेषणमन्तः" (७.४.११३) इति विशेषणस्यान्तत्वे लब्धमर्थमाह-पूरणप्रत्ययान्तः शब्द इति-यद्यपि पूरणशब्दस्य पूरणप्रत्ययान्तेत्यर्थकरणेऽपि न्यूनाधिकग्रहणाभावेन ‘पञ्चम' इत्येतन्मात्रस्य ग्रहणं प्रसज्यते, तथाऽपि केवलपञ्चमादिशब्देऽप्यर्द्धशब्दस्य पूर्वपदत्वमसम्भवीति सामर्थ्याद् ‘अर्द्धपूर्वपदक: पूरणप्रत्ययान्तोत्तरपदकः सङ्ख्यावद् भवति' इति सूत्रार्थो निष्पद्यत इति सर्वं सुविशदम्। निमित्तिविशेषोपादानाद् ‘अध्यर्द्ध' इत्यस्य निवृत्तावपि शेषमनुवर्तते निवर्तकाभावादित्याह-क-प्रत्यय इत्यादि । पञ्चानां सङ्ख्यानां पूरणमिति पञ्चमम्, अर्द्ध पञ्चमं येषु तेऽर्द्धपञ्चमाः, अर्द्धपञ्चमैः क्रीतमिति अर्द्धपञ्चमकम्, अत्र “सङ्ख्या-डतेश्चा०" (६.४.१३०) इति कप्रत्ययः। अर्द्धपञ्चमैः शूर्पः क्रीतमिति अर्द्धपञ्चमशूर्पम्, अत्रार्द्धपञ्चमशब्दस्य सङ्ख्याशब्दत्वात् क्रीतार्थे विधीयमानस्य इकणो विषयत्वाञ्च “सङ्ख्या समाहारे च०" (३.१.९९) इति द्विगुसमासः, इकणश्च द्विगोराहदर्थे जातत्वात् “अनाम्न्यद्विः प्लप्" (६.४.१४१) इति लुब् भवति। क-समास इति वचनाद् धादिविधाविदं न प्रवर्तते।
Loading... Page Navigation 1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484