Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट - २
૪૩૯
एतच्चतुष्ट्यं सङ्ख्यातिदेशसूत्रम्। ननु बहुगण - डत्यतूनां सङ्ख्यातिदेशविधायकं सूत्रद्वयं न कर्तव्यम्, न चैकादिवन्नियतविषयपरिच्छेदहेतुत्वरूपसङ्ख्यावाचित्वममीषां नास्तीति सङ्ख्याप्रदेशेषु कथं सम्प्रत्ययः स्यादिति वाच्यम्-“वाऽतोरिकः” (६.४.१३२) इति सङ्ख्याभूतादत्यन्ताद् इकमनुशासता सङ्ख्यात्वस्य ज्ञापनात्। अथ तथाऽप्यतोरेवैकस्य कृते ज्ञापकं स्यादिति चेत्, सत्यम्“पित्तिथट् बहु-गण-पूग-सङ्घात्” (७.१.१६०) “अतोरिथट्” (७.१.१६१) “षट्-कति-कतिपयात् थट्" (७.१.१६२) इति ज्ञापकैस्तेषां सर्वेषामपि सङ्ख्याकार्यस्य सिद्धत्वात् । ननु "पित्तिथट् बहु-गण०” (७.१.१६०) इत्यादौ विशेषाश्रवणात् सङ्घ-वैपुल्यवाचिनोरपि बहु-गणशब्दयोः सङ्ख्याकार्यं स्यादिति चेत्, न - अनैयत्येनापि सङ्ख्याभिधानदशायामेतयोः सङ्ख्याकार्यं भवतीत्येतावन्मात्रज्ञापनेन चरितार्थत्वे सति सर्वथा सङ्ख्यानभिधानदशायां सङ्ख्याकार्यकल्पनस्य गौरवपरास्तत्वात्। भूर्यादीनां त्वनियतसङ्ख्यावाचिनां ग्रहणं तु न भवति नियतसङ्ख्यावाचिनां पञ्चादीनामेव लोके सङ्ख्याशब्देन प्रसिद्धत्वात्, प्रसिद्धाप्रसिद्धयोः प्रसिद्धग्रहणस्य न्याय्यत्वात्। नन्वेवमपि बहु-गणयोरिव पूग-सङ्घादीनामपि सङ्ख्याकार्यप्रसङ्गः, न च बहु- गणयोः सामान्यापेक्षं ज्ञापकं पूगादीनां तु पित्तिथट् विषयमेवेति वाच्यम्, एकसूत्रोपात्तत्वेन समानतया वैषम्यसम्पादने बीजाभावादिति चेत्, मैवम्-लक्ष्यानुरोधेन क्वचित् सामान्यापेक्षं क्वचिद् विशेषापेक्षं ज्ञापकमित्याश्रयणात्, तदनुरोधेन वैषम्यस्य सोढव्यत्वादिति दिक् ।
यद्वा “वातोरिकः" (६.४.१३२ ) इत्यनेन सङ्ख्याकरणत्वाभाववतामपि प्रयोगेषु दृश्यमानसङ्ख्याकार्याणां सङ्ख्याकार्यं ज्ञाप्यते, तेन अध्यर्धादीनामपि सिद्धम् । तथा च चत्वार्यपि सङ्ख्यातिदेशसूत्राणि न विधेयानीति भावः । अत्रोच्यते-ज्ञापकोपन्यासस्य गरीयस्त्वेन इमां कुसृष्टिमसहमानैः सूत्रकारैः सूत्राणीमानि सूत्रितानीति परमार्थः ।।४२।।
"हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः । । १ । ।
श्रीमूलराजनृपः श्रीमूलराजनामा नृपतिः, जयति सर्वोत्कर्षेण वर्तते। स कीदृश: ? हरिरिव विष्णुरिव, बलिबन्धकरः बलिनां-बलवतां निजरिपूणाम्, बन्धः - पराजित्य स्वकारागारनियन्त्रणम्, तत्करणशीलः, हरिपक्षे बलेः-बलिनाम्नो नृपतेः, बन्धः –स्वायत्तीकृतराज्यान्निष्कास्य पाताले नियन्त्रणम्, तत्करणशीलः । पुनः कीदृश: ? पिनाकपाणिरिव शिव इव, त्रिशक्तियुक्तः तिसृभिः शक्तिभिः-प्रभुत्व-मन्त्रोत्साह - शक्तिभिर्युक्तः, शिवपक्षे तिसृभिः शक्तिभिः - सृष्टि-स्थिति-संहार-शक्तिभिः सूर्या-चन्द्राऽग्निरूपाभिर्युक्तः । पुनः कीदृश: ? विधिरिव ब्रह्मेव, कमलाश्रयः कमलायाः-लक्ष्म्याः, आश्रयः-स्थानम्, विधिपक्षे कमलमाश्रयः आसनमुत्पत्त्याश्रयश्च यस्य सः । अत्र श्लेषानुप्राणितोपमालङ्कारः । । १ । ।
इति प्रथमाध्याय- प्रथमपादस्य बृहन्यासो लघुन्यासो न्यासानुसंधानं च पूर्णमिति समाप्तोऽयं प्रथमः पादः । ।
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484