Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४४७
परिशिष्ट-४ 113) विशेषणं गुणः, विशेष्यं द्रव्यम् – १.१.३ 114) विशेषनिषेधस्य शेषाऽभ्यनुज्ञाहेतुत्वम् – १.१.२७ 115) विंशत्याद्याः शताद् द्वन्द्वे सा चैक्ये द्वन्द्वमेययोः (लिङ्गा.) – १.१.३९ 116) विंशत्याद्याः सदैकत्वे सर्वाः सङ्ख्येय-सङ्ख्ययोः (अभ२४५) – १.१.३९ 117) व्यज्यते (प्रकाशवान् क्रियते)ऽर्थोऽनेन इति व्यञ्जनम् – १.१.१० 118) व्यतिरेकः शब्दाभावे तदर्थानवगमः – १.१.२७ 119) व्याकरणात्पदसिद्धिः पदसिद्धेरर्थनिर्णयो भवति। अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः।। – १.१.२ 120) शक्तिग्रहं व्याकरणोपमान-कोशाऽऽप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।।
- १.१.४२ 121) सकृदुञ्चरितः शब्दः सकृदेवाऽर्थं गमयति – १.१.४० 122) सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः।। – १.१.३ 123) सदृशं त्रिषु लिङ्गषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् – १.१.३० 124) सदेव सत्स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीति-नय-प्रमाणैः – १.१.२ 125) सदेव सर्वं को नेच्छेत् स्वरुपादिचतुष्टयात् (मामीमांसा) - १.१.२ 126) समास-नामधातु-कृत्-तद्धितेषु वाक्ये व्यपेक्षा, वृत्तावेकार्थीभावः, शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् – १.१.२५ 127) सम्प्राप्ते द्वादशे वर्षे कुमारीत्यभिधीयते – १.१.२९ 128) सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते। स्वार्थवत्सा व्यपेक्षाऽस्य वृत्तावपि न हीयते।। – १.१.१३ 129) सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः (तत्वार्थसूत्र) – १.१.२ 130) सर्वतो मानं परिमाणम् – १.१.३ 131) सर्वे सर्वार्थवाचकाः – १.१.२, १.१.३९ । 132) संज्ञा-संज्ञिसम्बन्धबोधकं संज्ञासूत्रम् - १.१.२ 133) सामान्यं चानुवृत्तिहेतुत्वाद् विशेषश्च भेदव्यवहारनिमित्तत्वादपरसामान्यं सामान्य-विशेषः - १.१.२९ 134) साध्यरूपा पूर्वापरीभूताऽवयवा क्रिया – १.१.३ 135) सीदन्ति (= विशेषणत्वेनावतिष्ठन्ते) अस्मिन् जाति-गुण-क्रिया-लिङ्ग-सङ्ख्या-सम्बन्धा इति सत्त्वम् – १.१.३१ 136) स्तन-केशवती स्त्री स्याद् रोमशः पुरुषः स्मृतः। उभयोरन्तरं यञ्च तदभावे नपुंसकम् (म.(माध्यही५) – १.१.२९ 137) स्त्यानप्रसवो लिङ्गम् – १.१.३ 138) स्थानान्तरनिष्पन्नः काकलिकत्वेन प्रसिद्धः शब्दः कलः – १.१.१ 139) स्वदेशे वाक्यार्थबोधाऽजनकत्वे सत्युत्तरसूत्रैकवाक्यतया वाक्यार्थबोधजनकत्वमधिकारसूत्रत्वम् – १.१.२ 140) स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वमुपलक्षणत्वम् – १.१.४, १.१.९, १.१.२९ 141) स्वापेक्षाऽपेक्षितत्त्वनिमित्तकोऽनिष्टप्रसङ्गः अन्योन्याश्रयः – १.१.२९ 142) हेतौ साध्याभावववृत्तित्वम् व्यभिचारः – १.१.१७
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484