Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४३४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सङ्ख्यातिदेशविधानफलाधानभूतो न कोऽपीतरः कप्रत्ययादित्याह-कप्रत्यय इति। समास इति-समस्यन्ते संक्षिप्यन्ते विवक्षितार्थबोधनक्षमसविभक्त्यादिपदानि विवक्षितार्थं बोधयन्त्येव सन्ति अदृश्यविभक्त्यादिकतया अल्पाल्पकलेवराणि विधाप्यन्ते घटकतया यस्मिन् स समासः, समसनं पदयोः पदानां वा एकीकरणं वा समासः, अभिधानाऽऽश्रितलोपाभाववदन्यमध्यवर्तिविभक्तिशन्यनामसमुदायो वा समासस्तत्र तथा। विहिते कप्रत्यये समासे वा अतिदेशो न सार्थकः, ततोऽपि कप्रत्यय-समासयोः सिद्ध्यर्थं सार्थकत्ववर्णने तु पूर्वं स कप्रत्ययः समासश्च दुर्लभो यावुद्दिश्य पुनः क-समासौ भवेताम् इति प्रागेवावश्यकताऽतिदेशस्येत्याह-विधातव्ये इति-अग्रिमक्षणे लप्स्यमानस्वरूप इत्यर्थः, अयं भाव:-किमपि विधानं प्रयोक्तुः कृतिविषयतामुपगमिष्यत् प्राक् तदीयेच्छामुखं पश्यति, यद्यनुगृहीतमिच्छया तदा कृत्या पश्चादनुगृह्यत इति तदानीं चिकीर्षितत्वं लभ्यते, स्वरूपं पश्चाल्लभ्यत एवेति। अध्यर्धन अर्धसहितैकेन। क्रीतं द्रव्यान्तरदानपूर्वकोत्पत्तिकस्वीयताकं कृतम्। अध्यर्धकमिति-अत्र सङ्ख्यातिदेशात् कप्रत्ययः सिद्ध इत्याह-"सङ्ख्याडतेश्चा०" (६.४.१३०) इत्यादि। समासे विधातव्ये सङ्ख्यातिदेशप्रयोजनमाह-अध्यर्धेन शूर्पणेत्यादि"शृश् हिंसायाम्" अत: "कृ-शृ-सभ्य ऊर् चान्तस्य" (उणा० २९८) इति पे ऊरादेशे च शूर्पः, तेन तथा, धान्यादिनिष्पवनभाण्डेनेत्यर्थः। अध्यर्धशूर्पमिति-अत्र अध्यर्धशब्दस्य सङ्ख्याशब्दत्वात् क्रीतार्थे विधीयमानस्य इकणो विषये “सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम्" (३.१.९९) इति द्विगुसमासः। अत्रेति-अध्यर्धशूर्पमिति प्रयोगे। सङ्ख्यापूर्वत्वेनेति-सङ्ख्यावाचकपूर्वपदघटितत्वेन, अध्यर्धरूपपूर्वपदस्य सङ्ख्यावाचकत्वेनेत्यर्थः। द्विगुत्वे 'अध्यर्धशूर्प' इत्यस्य द्विगुसमासत्वे सति। क्रीतार्थस्येकण इति-क्रीतार्थे विहितस्य इकण्प्रत्ययस्य, द्विगोराईदर्थे जातत्वात् “अनाम्न्यद्विः प्लप्" (६.४.१४१) इति लुप् भवतीत्यर्थः । धादिप्रत्ययविधाविति -“सङ्ख्याया धा” (७.२.१०४) इति धाविधिः, आदिपदाद् “वारे कृत्वस्" (७.२.१०९) इति कृत्वस्-प्रभृतिविधिः, तत्र न भवतीत्यर्थः।
ननु यथा एको द्वौ त्रयश्चत्वार इत्यादि गण्यते, गण्यते तथैव एकोऽध्यो द्वावर्धत्रय इत्यादि धारयाऽपि, तथा चातिदेशानपेक्षमेव कप्रत्ययादिकार्य 'दिकम्' इत्यादाविव 'अध्यर्धकम्' इत्यत्रापि सेत्स्यतीति सूत्रमिदं व्यर्थम्, यदि सङ्ख्यात्वेऽपि धाकृत्वस्प्रभृतिप्रत्ययानुत्पत्त्यर्थं 'क-समासे' इति निमित्तपदेन नियन्त्रणमावश्यकम्, तावन्मात्रोक्तौ तु पूर्वसूत्रोपात्तौ बहुगणशब्दौ वा उत्तरसूत्रोपात्तोऽर्धपूर्वपदः पूरण:-अर्धपञ्चमादिशब्दो वा कप्रत्यय-समासयोः कर्तव्ययोरेव सङ्ख्यात्वं लभेयाताम्, न तु धा-कृत्वसादौ कर्तव्य इत्यव्याप्तिः स्यात्, तदपाकरणार्थमध्यर्धशब्दघटितं "क-समासेध्यर्धः” इत्याकारकं सूत्रं कर्तव्यमेवेत्युच्येत, तथाऽपि कसमासेतराणि कार्याणि मा प्रसज्येरनित्येतनियमार्थकत्वमुपास्यताम्, विध्यर्थत्वं तु तावताऽपि दुरुपपादमेवेति चेत्, मैवम्-अर्द्धशब्दो भागद्वयेन विभज्यमानस्य वस्तुनो द्वितीयं सममंशं वाच्यत्वेन निवेदयति, स चांशोऽवयवभूत इत्येकदेशादिशब्दवद् अर्द्धशब्दोऽप्यवयववाच्येव, तस्य अध्यारूढमर्द्धं यस्मिन्नित्यर्थे बहुव्रीहौ समासे अध्यर्द्धशब्दः समद्वितीयांशसहितम्, एकत्व-द्वित्व-त्रित्वादिविशिष्टमर्थं योगशक्त्यैवाभिधातुं क्षमते न तु रूढ्यपेक्षा, सङ्ख्याकार्येषु सङ्घयापदं तु अकृत्रिमसङ्घयां तामेव गृह्णाति यत्र योगार्थो भवेद् वा न भवेद्, रूढ्यर्थोऽवश्यं स्थेयात्, यथा-एक-द्वि-त्र्यादिरिति, एवं च विध्यर्थत्वमेव सूत्रस्य स्वीकर्तव्यं कप्रत्ययादिष्टसिद्ध्यर्थमिति सुधियो धिया विभावयन्तु। ___केषाञ्चिदन्येषामभिनिवेशस्तु-'अध्यर्धशब्दोऽपि सङ्ख्याविशेषविशिष्टार्थनिरूपितरूढ्या योगेन चाऽऽश्लिष्ट एकादिरिव; आहोस्वित् प्रदेशेषु सङ्ख्यापदं रूढिनैयत्येनार्थाभिधायिनीमेवाकृत्रिमसङ्घयां गृह्णातीति मतं नाद्रियते, तथा सति अध्यर्थशब्दे सङ्ख्यासंज्ञामन्तरेणैव सङ्ख्याकार्यं भविष्यतीति सूत्रं नावश्यकम् इति, तेषां मतेऽपि नियमार्थतया सूत्रस्यावश्यकत्वमस्त्येव, तथाहिप्रदेशीयसङ्ख्यापदेनाध्यर्धपदप्रतिपाद्यार्थाभिधायिनां सा र्धसहितप्रभृतिपदानामपि ग्रहणेन तेभ्यः कप्रत्ययादिर्मा भूत् तदर्थ सङ्ख्येयांशवाचकस्य यदि सङ्ख्याकार्यं तर्हि अध्यर्धशब्दस्यैवेति व्यर्थेन प्रकृतसूत्रेण नियम्यते। स चायं नियमोऽध्यर्द्धशब्दः सङ्ख्यासंज्ञो भवतीत्यर्थकेन 'अध्यर्द्धः' इतीयन्मात्रेणापि कर्तुं शक्यः, क-समासग्रहणेन तु द्वितीयो नियमो वाक्यभेदेनाश्रीयते, तथाहि-'अध्यर्द्धः' इत्येको
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484